________________ 142 ] भीशान्तिनाथमहाकाव्ये रत्नसारसुत ! चेतना बुद्धिस्तस्याः आश्रय ! धीमन् ! धनद ! त्वादृशां सन्निधिं समधिगम्य प्राप्य, एतद्विचेतनं जडमपि रत्नम् , उपकत्तुं विषनाशद्वारा उपकत्तु मलं समर्थम् , वेधसा भाग्येनैव घटितं योजितम् , उपकारश्चेतनधर्मः, स कथमनेन क्रियताम् ? एवं चेत्थं भवनं भाग्यवशादेव, तदपि च चेतनाश्रयाश्रयादेव, चेतनाश्रयाश्रयादचेतनस्य चेतनधर्मः संभाव्यते इति भावः। एवं च विधेर्विधाने तव निमित्ततया त्वं मम मदुपकारक इति कृतज्ञता सूचिता // 13 / / रत्नसारतनुजन्मता तव, प्रागभूद्धनद ! सा निरन्वया / रत्नसारतनुजन्मताधुना, सान्वया मदुपकारकारणात् // 14 // धनद ! प्राक् पुरा, तव रत्नसारस्य तनुजन्मता पुत्रता, या अभूत् , सा निरन्वया रूढिरेव रूढया रत्नसारपदवाच्यपुत्रता, न तु रत्नेन कृत्वा रत्नसारस्य' श्रेष्ठस्य तनोः शरीराज्जन्म यस्य स तद्धावस्तत्ता इति रत्नेन सारः स चासौ तनु जन्मा देहीति च, रत्नसारः तनौ यस्य तादृशं जन्म यस्य तद्भावस्तत्ता वेति च योगार्थानुयायिनी न, अत एव प्राक निरन्वया सा इत्यर्थः / अधुना मम उपकारस्य रत्नसारजलसेकान्मम पुत्रस्य विषापहारद्वारा संजीवनरूपस्यासाधारणस्य साहाय्यस्य करणात् , रत्नसारतनुजन्मता सान्वया पूर्वाक्तयोगार्थीनुयायिनीति त्वं यथार्थनामासीत्यर्थः // 14 / / एवमस्य बहुधा प्रशंसनं, बन्दिवन्नरपतिस्ततान सः / कीर्त्यते स हि वदावदः परं, यः प्रशंसति गुणाश्रयं जनम् // 15 // ( त्रिभिविशेषकम् ) एवमुक्तप्रकारेण, स नरपतिः कनकरथः, वन्दिवत् चारणवत्, अस्य धनदस्य बहुधा अनेकप्रकारेण प्रशंसनं गुणोत्कीर्तनं ततान चकार / एतेन तस्यावसरोचितवाक्पटुत्वं सूचितम् , अन्यथा बहुधा प्रशंसनाऽसम्भवात् / तदेवाह-हि यतः स वदावदः अतिशयेन पुनः पुनः वा वक्तीति सुवक्ता कीय॑ते कथ्यते, यः, गुणाश्रयं गुणिनं जनं परमात्यन्तं प्रशंसति, अल्पभाषी निन्दको वा न वक्ता किन्तु स एव // 15 // હે દિમાન એવા રત્નસારને પુત્ર ધનદ તમારા જેવાની પાસે રહીને જ આ વિધાતાએ ઘડેલા જડ એવો રત્ન પણ ઉપકાર કરી શકો છે. 13 - હે ધનદ ! પહેલા તમારું રત્નસારના શરીરથી ઉત્પન્ન થવા પણું અર્થ વગરનું હતું પણ હમણાં મારે ઉપકાર કરવાથી તમારું રત્નસારના શરીરથી જન્મ થવા પણ સાર્થક થયું છે (કેમકે રનથી વિષ 12 o छ). / / 14 // આમ તે રાજાએ ભાટચારણની જેમ તે ધનદની અનેક પ્રકારે પ્રશંસા કરી પણ તે વકતા વધારે પ્રશંસા પામે છે જે ગુણિજનની પ્રશંસા કરે છે. 15 1 रनतारात् श्रेष्ठातू / नमिव सारं श्रेष्ठं यत्तनु तस्मात् /