________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 139 तो पितापुत्रौ श्वशुरौ वा, विनयेन कृत्वा उज्ज्वला शोभमानां विनयवतीमिमां तिलकसुन्दरी समीक्ष्य एव विलोकनमात्रादेव मानसे हर्ष बिभराम्बभूवतुः / सर्वो हि अनुकूलदर्शनेन तुष्यतीति भावः / तत्रोपमानमाह-'यथा द्रमकदम्पती ज्वलत्स्वर्णरत्नखचितं निधिम्' यथा येन प्रकारेण द्रमको निधनौ दम्पती जायापती ज्वलद्भिः भास्वरैः स्वर्णैः रत्नैश्च खचितं स्यूतं निधिमाकरम् समीक्ष्य, मानसे मनसि हर्ष बिभृत इति शेषः / / 3 / / તે બને સાસુ સસરા વિનયથી ઉજજવલ એવી આ તિલકસુન્દરીને જોઈ અત્યન્ત ખુશ થયા. જેમ દમડી જેની પાસે હોય એવા પતિ પત્ની પ્રકાશમાન એવા સેનાને રત્નોથી ભરેલા ખજાનાને જોઈ મનમાં ખુશ થયા. 3 सा बभार गृहभारमात्मनाऽऽवर्जयन्स्यपि कुटुम्बपेटकम् / धर्म्यकर्मणि मनः समाहिती, तौ च बिभ्रतुरपेतविभ्रमौ // 4 // सा तिलकसुन्दरी आत्मना अपि स्वयमेव, एतेन तस्या गृहकर्मविधानविज्ञता तदुत्साहश्च सूचितः / “गणं पेटकं वृन्दम्" इति हैमोक्तेः पेटकस्य समुदायवाचकत्वात् कुटुम्बपेटकं स्वकुटुम्बसमुदायम् आवर्जयन्ती रब्जयन्ती मधुरवागुचितव्यवहारादिभिः, गृहभारं गृहकार्यभारं बभार / सुलक्षणस्त्रीणामेतत्प्रथमं लक्षणमिति भावः / अत एव, अपेतविभ्रमौ निःशङ्कौ तौ पितापुत्रौ श्वशुरौ वा समाहितौ शान्तचेतस्कौ रक्तमानसौ वा। धर्म्य धर्मजनके कर्मणि व्रतादौ मनः बिभ्रतुराससजतुः, भव्यप्रो धर्मक्रिया चक्रतुरित्यर्थः // 4 // તે તિલકસુન્દરી કુટુંબ સમૂહને ખુશ કરતી ઘરનો ભાર પોતે ઉઠાવી લીધો. તે બન્ને સાસુ સસરા કાર્યભાર છોડી સમાધિપૂર્વક ધર્માનુષ્ઠાનમાં મન પરોવ્યું પાકા कान्तया सह तया समाश्रयत्, सोऽथ शर्मधनदो धनेश्वरः / कामकेलिजनितं हि यौवने, मुख्यमेतदुपचारतोऽपरम् // 5 // अथानन्तरम् स धनेश्वरः धनदः तया कान्तया तिलकसुन्दर्या सह, कामकेलिज नितं कामविलासजन्यं शर्म सुखं समाश्रयदन्वभूत् / ननु किमिति बन्यसुखानुभवो न रुच्यते इति चेत्तत्राहहि यतः, यौवने, एतत्कामसुखं मुख्यं प्रधानम् अपरमन्यत्सुखम् , उपचारतः गौणतया, कामसुखस्य यौवन एवावैकल्प्येन लाभसम्भवात्सुखान्तरस्य च वार्धक्यादावपि प्रचुरतया लाभसंभवाच्च यौवने कामसुखस्यैव प्राधान्यमिति भावः // 5 // પછી શેઠ તે ધનદ તે સ્ત્રીની સાથે કામક્રીડાના સુખને પામ્યો, કેમકે યુવા અવસ્થામાં આજ મુખ્ય છે, બીજ ગણુ છે. પા भर्तसङ्गमपलभ्य भाविनी, दुःखमेव न वियोगसंभवम् / ....... साऽध्यगात्कुमुदिनीव कौमुदी-नायके समुदिते मुदश्चिता-६॥