________________ 140 ] भौशान्तिनाथमहाकाव्ये भर्तुः धनदस्य सङ्गम् उपलभ्य प्राप्य, भाविनी सदाशया सा तिलकसुन्दरी, मुदा हर्षेण अश्चिता युक्ता, अथ च प्रफुल्ला सती, वियोगसभवं विरहजन्यं पूर्वानुभूतं भविष्यद्वा, दुःखम् , कौमुदीनायके चन्द्रे समुदिते सति सम्यगुदयं प्राप्ते सति कुमुदिनी इव नैव अध्यगात् सस्मार प्राप वा / अत्र मुदचितेति दुःखाभावावगमे विशेषणगत्या हेतुरित्यतः पदार्थहेतुकं काव्यलिङ्गमलङ्कारः // 6 // ચંદ્રમાને ઉદય થયે છતે વિકસ્વર થયેલી કુમુદિનીને જેમ મનવાળો તે તિલકસુન્દરી પતિને સંગ પામી કદી વિરહ દુઃખને અનુભવ કર્યો નહિ પણ लज्जया किमपि कामकौशलं, या न वल्लभमबूबुधत्पुरा / प्रेम पत्युरवलोक्य संभृतं, सा स्वतस्तदनु तं न्यवीविदत् // 7 // या तिलकसुन्दरी, पुरा, विवाहे जातेऽपि अल्पपरिचयात्पूर्वस्मिन्काले, मुग्धत्वाद्वा, लज्जया, किमपीषदपि. कामे कामक्रीडायां कौशलं नैपण्यम, वल्लभं पतिं धनदं न अबबुधत बोधयति स्म / अज्ञातकामविलासा इव वत्तते स्म, सा तिलकसुन्दरी, पत्युः प्रेम विलोक्य, धैर्यात्साहसात् गाढपरिचयात्स्वस्य पूर्ण युवत्वाच्च, तदनु प्रेमविलोकनानन्तरं स्वतः अप्रेरिता इव रागवशात् , संभृतं राशीकृतमिव पूर्वमकरणात्कामकौशलम् , तं पतिं धनदम् , न्यवीविदद्वेदयति स्म // 7 // જે તિલકસુન્દરી પહેલા પતિની જે કામ ચેષ્ટા લજજાથી સમજતી ન હતી, તે પતિને પ્રેમ જોઈ પિતે જ તે પુરેપુર તેને અનુસરીને જણાવવા લાગી. IIછા वप्तुरङ्कमधितस्थुषोऽन्यदा, नन्दनस्य नृपतेः समार्पयत् / प्राभृतं निभृतमानमच्छिरा, मालिकः सुरभिपुष्पमालिकाम् // 8 // अन्यदा वस्तुः पितुः अङ्कम् क्रोडम् अधितस्थुषः अध्यासितस्य नृपतेः राज्ञः नन्दनस्य पुत्रस्य आनमच्छिराः आनमच्छिरो मस्तकं यस्य स तथा नमन् मालिकः मालाकारः, निभृतं सविनयं प्राभृतमुपहारम् सुरभिपुष्पाणां मालिका स्रज समापयद्ददौ // 8 // એક દિવસે પિતા એવા રાજાના ખેલામાં જ્યારે તેને પુત્ર બેઠો હતો, ત્યારે નમન કરતા નમેલા મસ્તકવાળા માળાએ સંગઠિત પુપિની માળારૂપ ઉપહાર ચુપચાપ આપ્યો. 58 घ्राणदेशविषयं नयनयं, तां मधुव्रतविकर्षणौषधीम् / दृश्यते स्म वदनोऽन्तराश्रिता, निनिमित्तरिपुराजभोगिनी // 9 // तां मधुव्रतानां भ्रमराणां विकर्षणे समाकर्षणे औषधीं तदुपमा तद्रपामत्यामोदसमन्वितां स्रजम् , घ्रणदेशविषयं नासागोचरं नयन्कुर्वन् जिघ्रग्नित्यर्थः / अयं नृपतिनन्दनः, अन्तःस्रजः मध्ये जाश्रितास्थितेन, निनिमित्तं निष्कारणम् रिपुः प्राणनाशकत्वेन शत्रः यः राजभोगी भोगिनां सर्पाणां राजा, राजसपः विषधरः सर्पस्तेन, वदने मुखे दृश्यते स्म // 6 //