________________ * ॐ अहम् * // अथ सप्तमः सर्गः // अथ सप्तमसर्गप्रारम्भे मङ्गलमातनोतियस्य दर्शनमवाप्य योगिनो, योगमेव सफलं विजानते / दुष्टकर्म विनिबर्हणक्षमः, शान्तिरस्तु भवतां शुभाय सः // 1 // योगिनः मुनयः यस्य श्रीशान्तिनाथप्रभोदर्शनं साक्षात्कारम् अवाप्य एव, यस्य दर्शनमात्रत इत्यर्थः / यद्वा दर्शनं शासनमवाप्य श्योगं ध्यातुध्यानध्येयैकत्वीकरणरूपमोक्षजनकसम्यग्दर्शनादित्रयात्मकसमाधिलक्षणं सफलं विजानते / एतेन तदर्शनस्य दौर्लभ्यम् , अग्रभूमित्वञ्च सूचितम्, स तादृशः, दुष्टानां घातिनां कर्मणां विनिवर्हणे विनाशने स्वातिशयद्वारा क्षमः समर्थः श्रोशान्तिः तदाख्यः षोडशः तीर्थङ्करः, भवतामध्येतॄणामध्यापकानां च शुभाय अस्तु स्तात् // 1 // (रथोद्धतावृत्तम् ) યોગિઓ જેનું દર્શન કરી પોતાના યોગને સફળ માને છે, દુષ્ટકર્મોના નાશ કરવામાં સમર્થ એવા તે શાંતિજિન વાચકોના શુભ કરનારા થાઓ. 1 अथ पूर्वसर्गावशिष्टकथांशमुपक्षिपन् तिलकसुन्दर्याः स्वश्वशुरप्रणतिमाहसाऽथ कान्तधनदोपदेशतः, प्राणमत्तिलकसुन्दरी वधूः / / रत्नसारचरणाम्मुजद्वयं, सेवितं किमपि रत्नचूलया // 2 // अथ स्वगृहगमनानन्तरम् , कान्तस्य स्वामिनो धनदस्य उपदेशतः कथनात् सा तिलकसुन्दरी वधूः, प्राणमत् रत्नसारस्य चरणाम्बुजद्वयम् , किमपि अनिर्वचनीयस्वरूपतया रत्नचूलया मणिचूलाख्यस्वस्त्रिया सेवितमित्यर्थः // 2 // પછી તે તિલકસુન્દરીએ પોતાના પતિ ધનદના કહેવાથી કાંઈક અદ્દભુત રત્નથી યુક્ત એવા રત્નસારના બને ચરણ કમલને પ્રણામ કર્યો. રા तौ समीक्ष्य विनयोज्ज्वलामिमां, हर्षमेव बिभराम्बभूवतुः / मानसे द्रमकदम्पती ज्वल--स्वर्णरत्नखचितं निधिं यथा // 3 // 1 मोक्षेण योजनाद् योगः सम्यग्दर्शनादित्रयात्मकस्तम् /