SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ તેને અર્કકીર્તિ નામને પુત્ર હતો. તે તેજથી સૂર્ય જેવો અને શરદ ઋતુના ચન્દ્રમા જેવી કવિતવાળો હતો, જે પિતાએ આપેલ યુવરાજ પણાને શંકા વિના અનાયાસે પાલન કરતો હતો. દા अथ तस्य स्वसारं वर्णयति' श्रीपोतनेशः प्रथमो हरिस्तां, शस्तामुदहेऽवयवैस्त्रिपृष्ठः // अस्यानुजासीत् स्वयमादिभूता, ख्याता प्रभाल्या रतिरम्यरूपा // 7 // - अस्यार्ककीर्तेः स्वयमितिशब्द आदिभूतो यस्यां सा तथा प्रभाख्या प्रभेत्याख्या यस्याः सा प्रभाख्या, स्वयम्प्रभेत्यर्थः / रतिरिव रम्यं रूपं यस्याः सा तादृशी ख्याता प्रसिद्धा अनुजा कनिष्ठा / स्वसा, आसीत् , अवयवैः शस्ता प्रशस्ता तो स्वयंप्रभा श्रीपोतनेशः श्रीपोतनपुराधीशः, त्रिपृष्ठः तन्नामा प्रथमः हरिर्वासुदेव उदूहे परिणीतवान् // 7 // તેને લોકમાં પ્રસિદ્ધ રતિ જેવા મનહર રૂપવાળી સ્વયંપ્રભા નામની નાની બહેન હતી. પ્રશંસનીય એવી તે સ્વયંપ્રભાને તેવા અવયવો હોવાને લીધે ત્રિપૃષ્ઠ નામને પિતનપુરના નૃપ પ્રથમ વાસુદેવે પરણી ती. // 7 // ___ अथ श्वशुराय राज्यदानमाहविश्राणयामास स च प्रसाद-प्रासादचित्तः श्वशुराय तस्मै / भेण्योर्द्वयोरप्यसमानलक्ष्म्यो, राज्यं विरज्यन्निव राजकान्तिः // 8 // स च हरिः, 'राजा मृगाङ्के क्षत्रिये नृपे' इत्यमरोक्तेः राजा चन्द्रः स इव कान्तिर्यस्य स तादृशः तथा "प्रसादस्तु प्रसन्नता" इत्यमरोक्तेः प्रसादे प्रसन्नतायां "प्रासादो देवभूपानां" इति हैमोक्तेः देवमन्दिरे इव चित्तं यस्य स तथा प्रसादे प्रसन्नतायां प्रासाद इव चित्तं विशालत्वाद् यस्य स तथा प्रसादस्य अनुपमकन्याप्राप्तिजन्यप्रसन्नतायाः प्रासाद इवास्पदमिव चित्तं यस्य सः, अतिप्रसन्नचित्त इत्यर्थः / तस्मै श्वशुराय ज्वलनजटिने, विरज्यन्निव विरागमापद्यमान इव / यथा विरक्तः कश्चित्सवस्वमन्यस्मै ददाति, तथेत्यर्थः / असमाना अनुपमा लक्ष्मीः सम्पत्तिर्ययोस्तयोः द्वयोरपि श्रेण्योः, दक्षिणोत्तरश्रेण्योः राज्यं विश्राणयामास ददौ // 8 // . પ્રસન્નતાથી ઊચા મનવાળ, ચન્દ્ર જેવી કાન્તિવાળા, જાણે વૈરાગ્ય પામતે હેય તેવા તે ત્રિપૃષ્ઠ પ્રસન્નતાથી ઉદાર મનવાળા થઈ તે શ્વસુરને અતુલ્ય લક્ષ્મીથી યુક્ત એવી તે શ્રેણિઓનું રાજ્ય આપ્યું હતું. આ अयार्ककीर्दयिताप्राप्तिमाहश्रीअर्ककीर्तेर्दयिताजनिष्ट, मालाभिधा मेघवनस्य पुत्री / विद्याधरेन्द्रस्य यदीयनाम्नि, ज्योतिःपदं पूर्वमभूदपूर्वम् // 9 // विद्याधरेन्द्रस्य मेघवनस्य तदाख्यस्य पुत्री मालाभिधा श्रीअर्ककीर्तेः नामत्वादसन्धिः, दयिता पत्नी अजनिष्ट, यदीयनाम्नि अपूर्व श्रेष्ठं ज्योतिः पदं पूर्व पूर्वावयवमभूत् , ज्योतिर्मालेति सम्पूर्ण नाम तस्या इत्यर्थः / / 9 / /
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy