________________ ज्वलनेन अग्निना अविता रक्षिता आमा यस्य, स तादृशः, अग्न्यनुगृहीतकान्तिरित्यर्थः। अग्नितुलितकान्तिरिति यावत् / 'त्राणं रक्षितमवित'मित्यमरः। अत एव प्रत्यर्थिनः शत्रवः कान्तारं वनमिव / तच्चादः तिरोहिता अदृश्यतां नीता, नाशिता श्रीः लक्ष्मीः यस्य तत्तादृशं येन स तथाभूतः विनाशितशत्रुवनलक्ष्मीकः, अग्नितुल्यस्य हि कान्तारतुल्यशत्रुश्रीतिरोधानमुचितमेव / प्रत्यर्थिन एव कान्तारं (प्रत्यर्थिनः कान्तारं वनमिव ) प्रत्यर्थिकान्तारम्, तस्य तिरोहिता अदृश्यतां नीता नाशिता श्रीलक्ष्मीर्येन स तथाभूतः / अथवा प्रत्यर्थिनां कान्तासु या रतिः-रमणं तया कृत्वा रोहिता संवर्धिता श्रीः यस्य स तादृशः, यद्भयेन प्रत्यर्थिनः सदा कान्तास्वेव रममाणास्तिष्ठन्ति, नतु ते कदाचिदपि तेन हेतुना रणेऽभिनिविशन्ते इति भावः। तथा काष्ठानां दिशां य अन्तरावेशः मध्यप्रदेशः तं विगाहमानः व्याप्नुवन् , दिगन्तख्यात इति यावत् / बलीयान् बलवत्तरः, विद्याधरेन्द्रः जटी ज्वलनजटी नाम क्षमापः महीपतिः तत्पुरम् अन्वशिषत् शासति स्म / अत्र ज्वलनाविताभत्वेन वर्णनं प्रत्यर्थिकान्तरश्रीतिरोधाने विशेषणगत्या हेतुभावं वहतीति पदार्थहेतुकं काव्य लिङ्गम् // 4 // તે નગરમાં જવલનજી નામને વિદ્યાધરેન્દ્ર રાજા શાસન કરતો હતો. તે બલવાન, શત્રુરૂપી વનની લક્ષ્મીને ઢાંકવા વાળે અને દિગન્ત સુધી પહોંચવાવાળો પ્રસિદ્ધ હતો. જા अथ तत्पत्नी वर्णयतिपत्नी तदीयाऽजनि वायुवेगा, यलोचनानां सुषमामवेक्ष्य / आसन् कुरङ्गा हरिणाः प्रसिद्धो, सा शब्दशास्त्रेश्वधुनाऽपि संज्ञा // // पायुवेगा तन्नाम्नी तदीया पत्नी अजनि, यस्याः लोचनानां नेत्राणाम, लोचने द्वे एव यदपि, तथापि बहुवचनं तद्विभ्रमाधिक्यमपेक्ष्येति समाधेयम् / सुषमा परमा शोभाम् अवेक्ष्य विलोक्य 'सुषमा परमा शोभा' इत्यमरः / कुरङ्गाः मृगाः 'मृगे कुरगवातायु' इत्यमरः / हरिणाः पाण्डुवर्णाः, विवर्णा इति यावत आसन् / 'हरिणः पाण्डुरः पाण्डु' रित्यमरः / स्वनेत्राधिकशोभादर्शनेन ग्लानेः, सर्वोऽपि हि स्वापकर्षे ग्लायति इति भावः / सा तद्धेतुका एव संज्ञा नाम, हरिणीभावात् हरिण इति संझेति भावः। अधुनाऽपि शब्दशास्त्रेषु कोशादिषु प्रसिद्धा वत्तते इति शेषः / अत्र सुषमावलोकनेन हरिणता, संज्ञायास्तद्धेतुकत्वश्चाध्यवसितमेवेत्यसम्बन्धे सम्बन्धरूपातिशयोक्तिः // 5 // તેની વાયુવેગા નામની પત્ની હતી. તેના નેત્રની પરમ શોભા જોઈને જાણે હરણો-રંગ-કુત્સિત રંગ વાળા થયા. માટે હમણાં પણ વ્યાકરણ દેશ વગેરે શાસ્ત્રમાં તે સંજ્ઞા પ્રસિદ્ધ છે. પા अथ तत्पुत्रं वर्णयतिसूनुस्तदीयोऽभवदर्ककीर्ति-र्धाम्नोऽर्करूपः शरदिन्दुकीर्तिः / यो यौवराज्यं जनकोपनीतं, लीलापरः पालितवानशङ्कः // 6 // धाम्ना तेजसा अर्करूपः सूर्यतुल्यः शरदिन्दुरिव निर्मला कीर्तिर्यस्य स तादृशः, अर्ककीर्तिः अर्ककीर्तिनामा तदीयः सूनुः पुत्रः अभवत् / यः अशङ्कः निर्भयः अत एव लीलापरः क्रीडापरायणः / यद्वा सौकर्येण, जनकेन पित्रा उपनीतं प्रदत्तं यौवराज्यं युवराजस्य कर्म पालितवान्-निरवाहयत् // 6 / /