SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ કે જેનું નામ માત્રના સાંભળવાથી મનુષ્યોના પાપ તરત જ નાશ પામે છે, તે જ્ઞાનરૂપી મણિના અંકુરની ઉત્પત્તિમાં રહેણાચલુ ખાન એવા શ્રી શાન્તિનાથ તમારા વાચકેના) શુભ માટે થાય છે ___ अथ कथा प्रस्तौति अन्त इतिअन्तर्णिपत्येन्दुकराभिरामः, क्षेत्रं द्विधा यो भरतं चकार / विद्याधराणां भवनानि यस्मिन्, वैताढ्यनामा स धराधरोऽस्ति // 2 // यः धराधरः, इन्दुः चन्द्रः तस्य करः-मरीचिः 'भानुः करो मरीचिः स्त्री'त्यमरः / स इव अभिरामः-रमणीयः तदवत श्वेतवर्णः / अन्तः-मध्ये / निपत्य-स्थित्वा. भरतं तदाख्यं. द्विधा-विभागद्वयवत् चकार / यस्मिन् धराधरे; विद्याधराणां विद्याभृतां भवनानि महापुराणि पञ्चाशत् षष्ठिनगरा वासा इत्यर्थः / सन्तीति शेषः / “स्युस्तत्र दक्षिणश्रेणौ वृतानि विषयैः निजैः। महापुराणि पञ्चाशत् परस्यां षष्ठिरेव च" इत्युक्तं क्षेत्रलोकप्रकाशे / सः-तादृशः, वैतान्यनामा धराधरः पर्वतः अस्ति // 2 // ભરત ક્ષેત્રને જે વચ્ચે રહીને બે ભાગ કરે છે, અને જ્યાં વિદ્યાધરોનાં ભવને રહેલાં છે, તે વૈતાવે નામને ચન્દ્રમાના કિરણ જેવો મનહર પર્વત છે. રા अथ तत्र वर्णनीयं पुरमाह तस्मिन्नितितस्मिन् पुरं श्रीरथनूपुराधा-स्ते चक्रवालाभिधमुच्चवरम् / श्रेणेर्विभूषाकृति दक्षिणस्या, वमेव माहेश्वरमिद्धभूतिः // 3 // तस्मिन् धराधरे वैताढ्याख्ये दक्षिणस्याः-दक्षिणदिक्स्थायाः श्रेणेः 'विभूषा श्रीरभिख्याकान्ति विभ्रमाः लक्ष्मीश्च्छाया च शोभाया'मित्यमरोक्तेः विभूषा शोभा तच्छालिनी आकृति स्वरूपं यस्य तत्तादृशं दक्षिणश्रेणिमण्डनरूपम् श्रेण्यपूर्वशोभाकारकं महेश्वरस्य शिवस्य इदं माहेश्वरं शिवसम्बन्धि, वर्म-शरीरमिव, 'शरीरं वर्म विग्रह' इत्यमरः / इद्धा-समृद्धा, अथ च दीप्ता भूतिः-ऐश्वर्य, सम्पदिति यावत्. यत्र तादृशं पुरं, वर्मपक्षे इद्धा सुशोभना भूतिः भस्म यत्र तत्तादृशम्, 'भूतिर्माता शृङ्गारे जातो भस्मनि सम्पदी'ति मेदिनी। उच्चाः वप्रा:-प्राकाराः यत्र तत्। श्रीरथनूपुरादि-रथनूपुर इति शब्द आदौ यस्मिन् तत्तथा / एवम्भतं चक्रवाभिधं चक्रवालमित्यभिधा यस्य तत् तथाश्रीरथनूपुरचक्रवालाख्यमित्यर्थः / पुरमास्ते / ऋषभचरित्रोक्तमेतत् जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण क्षेत्रलोकप्रकाशे त्वेवमुक्तम् दक्षिणस्यां पुरं मुख्यं भवेद् गगनवल्लभम् / उदीच्यां रथनूपुरचक्रवालाह्वयं भवेत्-इति // भूतिरिति श्लेषानुप्राणितोपमालङ्कारः / शब्दसाम्येऽपि उपमायाः स्वीकाराव // 3 // ત્યાં દક્ષિણ શ્રેણીના ભૂષણ જેવું શિવના શરીરની જેમ પ્રચુર ભૂતિ ભસ્મ એશ્વર્યથી યુક્ત ચક્રવાલ નામના ઊંચા કેટથી વેષ્ટિત એવું રથનપુર નામનું નગર છે. શા अथ तत्रत्यं राजानं वर्णयति मापो जटीतिमापो जटी तज्ज्वलनाविताभः, प्रत्यर्थिकान्तारतिरोहितश्रीः / काष्ठान्तरावेशविगाहमानो, विद्याधरेन्द्रोऽन्वशिषद्बलीयान् // 4 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy