________________ * ओ ही अहं नमः * शान्तिनिशान्तश्रीशान्तिनाथाय नमः / सकलसमीहितपूरकश्रीगौतमस्वामिने नमः / नमो नमः श्रीगुरुनेमिसूरये / वन्दे वाणीं सदाऽहतीम् / श्री-शा-न्ति-ना-थ-म-हा-का-व्य-म् ( द्वितीयो विभागः ) [तच्चेदं महासाहित्यवादिशिरोमणि-धीपेरोजमहीमहेन्द्रसदसि प्राप्तप्रतिष्ठोदय-भीमनिभद्रसरिविरचितम्, प्रबोधिनीविवृतिविभूषितश्च न्यायवाचस्पति-शाखविशारद-बिरुवाचित-तपागच्छाचार्यप्रवरश्रीविजयदर्शनसूरीश्वरमहाराजः ] __ अथ पञ्चमः सर्गः विश्वं विश्वषोज्ज्वलं रचयितुं, यो वैश्वसेनिर्मुनिमा॑नाम्भोनिधिवर्धनाय विशदं, सत्यं मृगाकोऽभवत् / हन्तुं मोहमहारिपुं समदधच्चक्रं मुनीनां मतं, तं शान्तिं विहिताशिवप्रशमनं, वन्देऽचिरानन्दनम् // अथ पञ्चमसर्गादौ मंगलं करोति-यदितियन्नाममात्रश्रवणानराणा-मेनांसि नाशं झगिति प्रयन्ते / संविन्मणीरोहणरोहणाद्रिः, भीशान्तिनाथः स शुभाय वोऽस्तु / / 1 // यस्य नाममात्रस्य श्रवणाद्धेतोः / नराणाम् , एनासि-दुष्कृतानि / 'कलुषं वृजिनैनोऽधमंहो दुरितदुष्कृतमि'त्यमरः / झगिति-शीघ्रं / नाशं श्रयन्ते-गच्छन्ति, सः प्रसिद्धः संविद्-बानं मणी इव तस्य रोहणे-उद्भवनिमित्तम् / रोहणाद्रिः-रोहणाचल इव / श्रीशान्तिनाथः-तन्नामा तीर्थकरः / वामच्यापकानामध्येतृणां च / शुभाय अस्तु / लुप्तोपमालङ्कारः। उपजातिः छन्द // 11 //