________________ बा. विषयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः / [ 135 सज्जना विरचयन्त्युपकारं, दुर्जनस्य विहितेऽप्यपकारे / छिमघृष्टमथवा परितापं, किं न चन्दनमपास्यति पुंसाम् // 220 // सज्जनाः विहिते कतेऽपि अपकारे अप्रिये, दुर्जनस्य उपकारं विरचयन्ति-तत्रोदाहरणमाहछिन्नमथवा घृष्टं चम्बनम् , नितान्तमपकृतं पुंसां छेदकानां घर्षकाणां च परितापं सन्तापं न मपास्यति दूरीकरोति किम् ! अपि त्वबस्यमपास्यति / तथैव सज्जना अपि अपकारिणमप्युपकुर्वन्तीत्यर्थः / / 220 // અપકાર કરાયે છતે પણ સજજને દુર્જનોને ઉપકાર કરે છે જેમકે કપાયેલો ઘસાયેલો છતે પણ ચંદન મનુષ્યને તાપ દુર નથી કરતો શું ? કરે જ છે. ૨૨ના अथ तस्य स्वगृहगमनमाहअथ कनकरथस्य क्षोणिशक्रस्य वाक्याज्जनकगृहमयासीत्पादचारेण सोऽपि / चिरपरिचययोगाल्लक्षणैर्लक्षयित्वा, प्रणतमपि पिता तं हर्षतोऽप्यालिलिङ्ग // 221 // अब अनन्तरम् क्षोणिशक्रस्य नृपस्य कनकरथस्य, वाक्याद्-भाशायाः, स धनदः अपि पादपारेण पादाभ्यां यश्चारः चलनं तेनैव, न तु यानादिना जनकगृहम जनकस्य पितुः गृहम् अयासीदगमत् / पिता तं प्रणतं धनदम् , चिरपरिचययोगात्-चिरं यः परिचयस्य सङ्गमस्य योगः सम्बन्धः तस्माद् अपि लक्षणैः चिह्नः लक्षयित्वा परिचित्य, चिरकालसापरिचिता अपि अपरिचिता इव भासन्ते इति भावः / हर्षतः आलिलिङ्ग / अपिः परिचयसमुच्चये // 221 // मालिनीवृत्तम् / પછી પૃથ્વીના ઈન્દ્ર એવા રાજા કનકરથના કહેવાથી તે પણ પગે ચાલીને પિતાના ઘરે ગયે. લાંબા કાળના પરિચય લક્ષણથી ઓળખીને પિતાએ નમતા એવા તેને હર્ષ ભેર આલિંગન કર્યું. ર૨૧ अय पितुजिज्ञासामाह-- दिष्टया वत्स ! निरीक्षितोऽसि मयका जीवंश्चिराय स्वयं, प्राणान् धारयता निमित्तविदुरज्योतिर्विदां वाक्यतः / कुत्रास्थाः किमुपार्जयो विषयमद्राक्षीः कमित्यादरात् , पृष्टोऽसौ जनकेन तं तमखिलं वृत्तान्तमाख्यन्मुदा // 222 // ___वत्स ! मकका मया, स्वयं निमित्तविदुरज्योतिविदाम्-निमित्तविदुराणां शकुनज्ञानां ज्योतिविदा वाक्यतः अवश्यं त्वत्पुत्र आगमिष्यतीत्यादिरूपवाक्यतः, प्राणान् धारयता, तादृशाशाभावे तु मृतिरेव स्यात् , दिष्टया भाग्यवशात् , चिराय, चिरकालानन्तरं जीवन निरीक्षितः असि, भाग्याभावे तु नैवं भवितुमर्हतीति भावः / कुत्र आस्थाः न्यवात्सी:, किम् उपार्जयः लाभो लब्धः / कं