________________ 134 ] भोशान्तिनाथमहाकाम्मे अथ तयुक्तिमेवाहसोऽवनीश्वर ! भवेत् पतिरस्याः, श्वभ्रसौधशिखरस्थितिमेखाम् / एतदात्तकरवालबलेना-हत्य खेचरमुपायत यश्च // 217 / / अवनीश्वर ! राजन् ! अस्याः स पतिः भवेद, यज्ञ श्वभ्रसौषशिखरस्थितिम् श्वभ्रे मुवो विवरे "गर्त-श्वभ्रा-ऽवटा-ऽगधि-दरास्तु-विवरे मुवः" इति हैमः / यः सौधः प्रासादः तस्य शिखरे स्थितिरवस्थानं यस्यास्तामेताम् , एतदात्तकरवालबलेन एतदात्तेन एतया प्रदत्तेन करवालेन खङ्गेनैव बलेन सामर्थ्यन, करवालस्य बलेनेति वा खेचरं पवनवेगाख्यविद्याधरम् आहत्य हत्वा, एतामुपायत परिणीतवान् , न तु केवलं पतितुल्याकृतिरतत्कर्मा इत्यर्थः // 217 / / હે રાજા! આને પતિ તે હશે જે આનાવડજ અપાયેલા તલવારના બળથી વિદ્યાધરને હણી તળાવ પાસે મહેલના ઉપર રહેલી આને પરણ્યા હતા. ર૧છા स्वानुभूतमिति चानु तदीयं, व्याजहार धनदः शुचिवृत्तम् / साऽवगुण्ठनमपास्य विलोक्य, स्वं पतिं प्रमदमापदनन्तम् // 218 // इति पूर्वोक्तम् , अनु पश्चात् स्वानुभूतं स्वेनैव न त्वन्येन केनापि, तथैव प्रत्ययसंभवादिति भावः, अनुभूतम् , तदोयं तिलकसुन्दरीसम्बन्धि, शुचि पवित्रं वृत्तं वृत्तान्तं च, धनदः व्याजहार उक्तवान् , सा तिलकसुन्दरी अवगुण्ठनं मुखावरणवस्त्रम् अपास्य दूरोकृत्य, स्वं पति विलोक्य, अनन्तं प्रमवं हर्षम् आपत् प्राप्तवती / / 218 // અને પછી ધનદે તેની સાથે પિતે અનુભવેલા બીજા હેવાલે પણ વર્ણવ્યા. ત્યારે તે ઘૂંઘટ હટાવી પિતાના પતિને જોઈ અત્યન્ત હર્ષને પામી. ર૧૮ देवदत्तवणिजं विनिबद्धं, भूपतेरथ विमोच्य कथंचित् / सच्चकार निजवित्तषडंश-स्पर्शनात्स धनदश्चरिताख्यः // 219 // . अथ अनन्तरम् विनिबद्धं निगडितं ,देवदत्तवणिजं कथंचिदनुनयादिना, भूपतेः सकाशात् विमोच्य, चरिताख्यः प्रसिद्धनामा स धनदः निजवित्तपडंशस्पर्शनात्-निजवित्तस्य षडंशस्य षष्ठांशस्य स्पर्शनादानात् सच्चकार सत्कृतवान् // 219 / / પછી બંધનમાં રહેલા દેવદત્ત વણિકને કઈ રીતે રાજાથી છોડાવી પિતાના ધનને છઠ્ઠો અંશ આપી યથાર્થ નામ વાળા ધનદે તેને સત્કાર કર્યો. ૨૧લા नन्वेतादृशानुपकारिणे सत्कारो न युज्यते, इत्यत आह--