________________ बा. विजयदर्षनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [ 133 किश तव पतिरप्यत्रैवेति भन्या कथयति-- किञ्च पश्य मुखचन्द्रमुदञ्च्य, त्वं स्थगीधरमिमं मम वत्से ! / आकृति प्रियतमस्य भवत्याः, किं परिस्पृशति नो कलयायम् // 214 / / किश वत्से ! त्वं मुखचन्द्रं मुखं चन्द्रमिव तत् उदच्य अवगुण्ठनानिष्काश्य, मम इमं समले वर्तमान स्थगीधरं ताम्बलकरङ्कवाहकं पश्य, किमिति प्रश्ने अयं / तमस्य आकृतिम् , कलवा कान्त्या, लेशतो वा, नो परिस्पृशति ? अपि तु अवश्यं परिस्पृशति / यद्वा कलय इत्यवलोकय त्वम् / तथा चायं तव पतिरेवेति किमर्थ मरणम् / / 214 // અને હે પુત્રિ ! તું પિતાના મુખરૂપી ચંદ્રમાને ઊંચા કરી આ મારા પાનદાની રાખનારને જે, શું આ સહેજ હારા પતિ જેવી આકૃતિવાળે નથી ? ર૧૪ साऽब्रवीन्मम पतिः पतिभक्ता, पातितो विषमनक्रभृतेऽन्धौ / आगमत् कथमिहापरमीश !, प्रायशः कति समा न भवेयुः // 215 // सा पतिभक्ता पतिव्रता तिलकसुन्दरी अब्रवीत-किमित्याह-ईश! राजन् ! मम पतिः विषमेण भयानकेन नऋण प्राहादिना भृते पूर्ण, अब्धौ समुद्र पातितः क्षेपितः, एवं च नक्रादिना अवश्यं भक्षितः स्यादिति भावः / अपरमन्यच्च, यदि कथंचिज्जीवत्यपि, तदापि इह कथमागमत्, आगमनसाधनाभावात् सागरस्य दुस्तरत्वात् अत्रागमनं तस्य न संभवतीति भावः / नन्वाकृतिस्तु संवेति चेत्तत्राह-प्रायशः कति अनेके समाः तुल्याकृतयः न भवेयुः, समाकृतयोऽपि बहुशो भवन्ति, एवं च भाकृतिसाम्येऽपि मम पति यमिति भावः // 215 / / તે પતિવ્રતા બેલી કે હે રાજ ! મારો પતિ ભયંકર મગરોથી ભરેલા સમુદ્રમાં પાડી દેવાય છે પ્રાયે ઘણું વર્ષ થઈ ગયા છે. તે અહિં તે કેવી રીતે આવ્યો ? 215 तां तदेकपतिकामवधृत्या-ज्ञापितः क्षितिभुना धनदोऽयम् / भ्रू-तरङ्गपरिचालनतोऽथ, व्याहरत् स्मितविराजितवक्त्रः // 216 // तत् तस्मादुक्तकथनोपकथनतः तो तिलकसुन्दरीम् एकपतिका पतिव्रताम् अवषत्य निश्चित्य, अथ अनन्तरम् , क्षितिभुजा राज्ञा, भ्रतरङ्गपरिचालनतः भ्रुवोस्तरङ्गस्य परिचालनतः नेत्रसंज्ञया आज्ञापितः, वदनाय प्रेरितः अयं धनदः, स्मितविराजितवक्त्रः, स्मितेन विराजितं वक्त्रं मुखं यस्य स तादृशः, ईषद्धसन्नित्यर्थः, व्याहरदुक्तवात् // 216 / / રાજ તેને પતિવ્રતા અવધારી આંખના ઈશારાથી ધનને આજ્ઞા કરી, પછી હસતે હસતે ધનદ બેલ્યો. 216