________________ 132 ] थी शान्तिनाथमहाकाव्ये ननु देवदत्तस्य मिथ्याकथनमपि दुष्कृतायेति चेत्तत्राह-- भूषयन्त्यखिलमेव शरीरं, भूषणानि मणिहेममयानि / आदधाति नु कुलद्वयभूषां, शीलमाभरणमात्मगतं सत् // 211 // मणिहेममयानि रत्नसुवर्णादिनिमितानि भूषणानि अलंकाराः 'अलंकारस्तु भूषणम्' इति हैमः / अखिलं शरीरमेव न त्वन्यत्किश्चित् भूषयन्ति, किन्तु आत्मगतं स्वगतं सत् उत्तमं शोलं चारित्ररूपं आमरणं कुलद्वयभूषां कुलद्वयं मातृपितृकुलद्वयं तस्य भूषां मण्डनमदधाति मण्डयति, एवं च तादृशशीलरक्षणकृते मिथ्यावदनमपि सह्यमेव, अल्पस्य हानावपि महतो लाभादिति भावः / / 211 // મણિ ને સુવર્ણનાં ભૂષણે આખા શરીરને જ ભૂષિત કરે છે. આત્મામાં રહેલો શીલરૂપી ભૂષણ તો બને કુળને શણગારે છે. ર૧૧ના ननु तहि सम्प्रति किं चिकीर्षसोत्यत आहसाम्प्रतं विरचयेद्यदि तातो, दारुभारनिचितां नु चितां तत् / जातवेदसमवाप्य सहायं, जीवितेशमनुयामि महीश ! // 212 // तत् तस्मात् यदि, तातः भवान् पितृरूपः, साम्प्रतं वारुमारनिचिता दारुणः काष्ठस्य भारेण राशिना निचितां पूर्णा चितां श्मशानाग्निकुण्डं विरचयेत्, नु तर्हि महोश ! राजन् ! जातवेदसं अग्निं सहायं अवाप्य जीवितेशं पति अनुयामि, शरीरं त्यक्ष्ये इत्यर्थः / / 212 // હે તાત! હમણાં લાકડાંના ભાર ભરેલી એવી ચિતા બનાવરાવી આપે તે, હે રાજ! હું અગ્નિદેવની સહાય મેળવી પોતાના પતિને અનુસરીશ. ૨૧રા अथ भूपतिप्रतिवचनमाहतत्त्वमान्तरमिदं यदि तत्त्वं, पुत्रिकेव मम सबनि तिष्ठ / धर्म्यकर्मरचना रुचिरात्र, दुर्लभं मनुजजन्म यदेतत् // 213 // यदि इदं त्वदुक्तप्रकारम् , आन्तरं हृत्स्थं तत्त्वं भावः, तत् तस्मात् त्वं मम सद्मनि गृहे, पुत्रिका कन्यका इव तिष्ठ / ननु चिताऽऽरोहणं किमिति न विधेयमित्यत आह-यद्-यस्माद् एतत् मनुजजन्म दुर्लभम्, दुःखेन लभ्यते, तथा, अत्र मनुजजन्मनि, धर्म्यस्य पुण्यजनकस्य कर्मणः क्रियायाः ब्रतानुष्ठानादेः रचना करणम् , रुचिरा सुकरा, अन्यत्र तु ज्ञानाभावान्न तद्भवितुमहतीति चिताऽऽरोहणं न कर्त्तव्यमिति भावः // 213 // ત્યારે રાજાએ કીધું કે જે તમારે આ આંતરિક ભાવ હેય તે તું મારે ઘેર પૂત્રીની જેમ રહે. અહિં ધર્મનું અનુષ્ઠાન કરવું તે ઉત્તમ છે. કેમકે આ મનુષ્ય ભવ દુર્લભ છે. 213