________________ 130 ] भीशान्तिनाथमहाकाव्ये देवदत्त इति नाम महेभ्यो, वाहनादुपगतोऽत्र दिदृक्षुः / त्वामुपागमदिति प्रनियुक्तैः, शंसितः स नृपति प्रणनाम // 204 // __(त्रिभिर्विशेषकम् ) वाहनात्प्रवहणादुपगतः प्राप्तः, देवदत्त इति नाम महेभ्यः, अत्र त्वां दिक्षः उपागमदिति नियुक्तैः राजपुरुषैः शंसितः विज्ञापितः सन् स देवदत्तः नृपति प्रणनाम // 20 // અને દ્વારપાલ દ્વારા વહાણથી આવેલા દેવદત્ત નામે શેઠ દર્શન કરવાની ઈચ્છાથી તમારી પાસે આવ્યો છે–એમ જણાવી રાજાને નમ્યો. રજા संज्ञया धनद एव तटस्थो-ज्ञापयत्तमपि तां च नृपाय / भूपतिविरचयन्नवहित्था, वक्तुमारभत तेन यथेच्छम् // 205 // धनदः तटस्थः पार्श्वप्रदेशस्थ एव, न तु संमुखस्था, अन्यथा परिचयात्कार्यविघ्नसंभवादिति भावः / तं देवदत्तमपि, ता तिलकसुन्दरीं च, संज्ञया इङ्गितेन न तूक्त्या, शब्दपरिचयेनापि कार्यविघ्नसंभवादिति भावः / नृपाय अज्ञापयत, स एवायमित्येवमिति भावः / तया भपतिः, अवहित्यां भाकारगुप्तिम् "अवहित्याऽऽकारगोपनम्" इति हैमः / बिरचयन् कुर्वन् सत्यवानॊपलब्धये, मया न किद्धिज्ज्ञायते इत्येवमाकारभावं प्रदर्शयन् , तेन देवदत्तेन सह यथेच्छं वक्तुमारभत // 205 // - ધનદ પણ રાજાને ઈશારાથી દેવદત્ત અને તિલાક સુન્દરી છે એમ જણાવ્યું. રાજા પિતાને “હું બધું જ છું” એવા આકારને છુપાવતે તેની સાથે આમ તેમ વાતો કરવા લાગ્યો. ૨૦પા अथ तद्वचनप्रकारमेवाहआगतो ननु कुतस्त्वमसीह, केयमावृतमुखी गुरुलज्जा ? / किंनिमित्तमिह राजकुले वा, नीयते स्म भवता सममेव ? // 206 // नन्विति प्रश्ने, त्वं कुतः इह आगतः असि, गुरुरधिका लज्जा यस्याः सा तादृशी, अत एव आवृतमुखी विहितानना वस्त्राच्छादितमुखी इयं दृश्यमाना स्त्री का ? वा तथा, इह राजकुले राजप्रासादे भवता त्वया, समं सामेव, किंनिमित्तं किमर्थ नीयते स्म आनीता ? // 206 / / તમે કયાંથી આવ્યા છે ? ભારે શરમાલ ને ઢાંકેલા મુખવાલી આ કોણ છે ? અને શા માટે આને રાજદરબારમાં લેતા આવ્યા છો. 206 एवमुक्तवति मानवदेवे, देवदत्तवणिजोऽपि जगाद / आयता प्रतिनिवृत्य कटाह-द्वीपतः क्षितिपते ! मयकेयम् // 207 //