________________ 128 ] भीशान्तिनाथमहाकाव्ये तस्य धनदस्य गिरा वाण्या एव, हृष्टः प्रसन्नः, तदौदार्यस्य सदभिलप गोत्वादिति भावः, स नृपः, व्यमुश्चत् तो मुक्तवान् दण्डादित्यर्थः // 198 / / ત્યારે તે પાનદાની સાચવનારે સુવિજ્ઞ એવા રાજાને તરતજ જણાવ્યું કે પોતાના કર્મ ફલને પામેલા આ બનેને છોડી દે, ત્યારે તેના કહેવાથી ખુશ થયેલા રાજાએ તે બનેને મુક્ત કર્યા. 198 तुर्य भागमुपलभ्य गतेऽस्मिन् , रैनलैनृपतिना स्नापितोऽसौ / मानितो रहसि मूलरहस्य, पृच्छयते स्म शपथानुपहृत्य // 199 // तुर्य चतुर्थ भागं तद्वित्तांशम् , उपलभ्य प्राप्य, एतेनास्य महौदार्य सूचितम् , अपराधेऽपि तत्क्षान्त्या वित्तसमर्पणेन चेति महतां महत्त्वमचिन्तनोयमिति भावः / अतः तदौहार्य दृष्टा नपतिना हृष्टतुष्टेन, सर्वोऽपि गुणेष्वनुरज्यतीति भावः / रैजलैः सुवर्गजलैः कल्याणं कनकं महारजतरै इति हैमः / स्नपितः पवित्रीकृतः, चाण्डालस्पर्शात्', सम्मानितश्च, अत एव, मानितः सत्कृतः असौ धनदः, रहसि एकान्ते शपथान शपनानि "शपनं शपथः पुमान्" इत्यमरः / उपहृत्य दत्त्वा अन्यथा कथनसन्देहादिति भावः / एतेन राज्ञस्तस्मिन् स्ववदनुरागः तदुरन्तं ज्ञातुं कौतुहलं च सूचितम् / मूलं रहस्यं मम, कुतः कथं वा एतत् सर्व जातमित्येतत्, पृछपते स्म // 169 / / ચોથે ભાગ લઈને ગયે છતે સુવર્ણ જળથી નવરાવીને સન્માન કરીને તેને એકાન્તમાં રાજાએ. - સૌગંદ આપીને મૂલ રહસ્ય પૂછયું. 199aaaa , ___ अथ धनवस्य स्ववृत्तकथनमाहतावकीनपुरसत्तमसार-रत्नसारतनयो धनदोऽस्मि / *वृत्तमुख्यझषवक्त्रनिपात-प्रान्तवृत्तचरितं स जगौ स्वम् // 20 // तावकीने तव पुरे सत्तमेषु सुजनेषु सारस्य श्रेष्ठस्य रत्नसारस्य तदाख्यश्रेष्ठिनः तनया, धनदस्तदाख्यः अहम् , अस्मीति शेषः / तथा स धनदः, स्वं नै वृत्तमुख्यम् / यद्येव विधिनालिखितमित्यादि श्लोकादि झषस्य मत्स्यस्य वक्त्रे निपातः पतनं प्रान्ते प्रान्तकाले वृत्तं जातं यस्मिन् तत्तारशं स्वं आत्मीयं चरित्रम् नगरप्रवेशपयन्तवृत्तान्तं जगौ जगाद // 20 // તમારા નગરમાં ઉત્તમમાં ઉત્તમ એવા રત્નસારનો પુત્ર ધનદ નામે હું છું અને તેણે પિતાના માલાના મુખમાં પડવાથી માંડીને ઠેઠ સુધીના બધા સમાચાર કહી સંભળાવ્યા. ર૦ના *सोऽथ कल्याणनोरेण, स्नात्वा शुचिरभूत्पुनः / इति शान्तिचरित्रान्तरे / "यद्येव विधिना लिखितमित्येवरूपम् / वृत्तमुख्यं यद्येव विधिना लिखितमित्येवं रूपमादौ अपवक्त्रे मत्स्यमुखे निपातः पतनं प्रान्ते वृत्तं जातं यस्मिन् ताशं चरितम् /