________________ था. विजयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः [ 127 तमीशं राजानं सुप्रसन्नम् अवलोक्य, अप्रीते हि राजनि किमपि कथनं नार्थसाधकमतः प्रीते एव तरिमन प्रार्थनस्तौचित्यादिति भावः / श्रेष्टिनः सुदत्तस्य प्रवहणे पोते, मे मम, कनक सम्पुटकानां कनकेष्ट कपुटकानां पादयुक् सपादा अष्टशती, सपादाष्टशतकनकेष्टकपुटकमित्यर्थः, सहसमितियावत् / / 195 / / न तावदेव किन्त्वन्यदपीत्याह-- अस्ति शस्तमिह सार्धसहस्र, रुक्सहस्रकरजेत् मणीनाम् / युक्तमत्र यदपि प्रतिभाति, तत्प्रसद्य कुरुतां प्रभुरेव // 196 // (युग्मम) इह प्रवहणे, रुचा कान्त्या सहस्रकरस्य सूर्यस्य जेत जयनशीलं भास्करबद्भास्वरम् , अत एव, शस्तं बहुमूल्यं मणीनां साध सहस्रम् , अस्ति अत्र विषये, यदपि यदेव, युक्तमुचितम्, प्रतिभाति वत्प्रसय प्रमुः स्वामी भवानेव, कुरुताम्। स्वामिनि हि सति किं परमुखापेक्षणेन ? तथा सति बस्वामित्वानुषङ्गादिति भावः / / 196 // ત્યારે તે શ્રેષ્ઠિપુત્ર રાજાને પ્રસન્ન નેઈ ફરી બે કે આ શેઠના વહાણમાં મારા હજાર અથવા સવા બાદ સંપ્રટો સોનાના છે. તેમજ કાન્તિથી સૂર્યને પણ તમારા એવા ઉત્તમ દેહ હર માગીએ છે, આ વિષયમાં જે યોગ્ય લાગે તે કૃપા કરીને આપ જ કરે. ૧૯૫૧૯દા तत्सुदतवणिजोऽखिलमेवा-नाय्य भूपतिरवेक्ष्य च सत्यम् / सर्वमेव परिगृह्य च वध्या-वादिशत् समुचितावथ तो सः // 197 // सुदत्तवणिजः सकाशात् , तत् कनकेष्टकानि रत्नानि च, अखिलं साकल्येन, आनाय्य सत्यमेव, धनदोक्तप्रकारेणैव संख्यादि युक्तम् अवेक्ष्य च, भूपतिः, सर्वमेव परिगृह्य अथानन्तरम् , स भूपतिः, समुचितौ तादृशदण्डयोग्यौ, तौ सुदत्तगीतरतिनामानौ वध्यौ, आदिशत् , तौ द्वावपि महापराधकरणाद्वथ्यौ इत्येवमादिष्टवानित्यर्थः // 187 // સુદત્ત વણિક પાસે તે બધુ મંગાવીને રાજાએ બધુ સાચું જ જોયું પછી તે બધું લઈ તે બન્નેને : વધ્ય છે, એમ આજ્ઞા આપી ૧૯ળા स स्थगीभृदपि भूपतिमेवं, मक्षु विज्ञपयति स्म सुविज्ञम् / मुञ्चतु प्रभुरिमो कृतकृत्यो, तद्गिरा व्यमुचदेव स हृष्टः // 18 // स स्थगीभृत् ताम्बूलकरङ्कवाहकः धनदः अपि, मझु शीघ्रं विलम्बेऽनर्थवारणासंभवादिति भावः / सुविज्ञं मूपितम्, एवं वक्ष्यमाणप्रकारेण विज्ञपयति प्रार्थयति स्म / प्रभुः स्वामी, इमो सुदत्तगीतरतिनामानौ कृतकृत्यो सम्पादितकार्यों, मुश्चतु क्षाम्यतु क्षमासारा हि साधव इति भावः /