SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मा. विनवदनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः / [ 123 किमूचे इत्याहराट्स्थगीभृदतिगायन ! वाच्या, सोदरेति भवता मदरिः सः। इष्टकाश्च कनकस्य चतस्रः, पूर्वमेव भवतो वितरामि // 182 // अतिगायन ! मातङ्गगायन ! भवता त्वया समदरिः मम शत्रः, स्थगीभृत् ताम्बूलकरधरः, सोदर इतीत्थं वाच्यः त्वं तं निजसोदरं कथयेति भावः / नन एवं गर्हिताचरणे मम को लाभ इति चेत्तत्राह-भवत: पूर्वमेव कार्यात्पूर्वमेव, एवं च कार्यानन्तरं दास्यति वा नेति सन्देहलेशोऽपि नान्तरायकरः, इति तस्य तथाकरणे नितरां व्यग्रता सूचिता / कनकस्य सुवर्णस्य चतस्रः इष्टकाः वितरामि, एवं च तव महान लाभ इति भावः // 18 // હે ભાઈ મહાન ગાયક ! આ રાજાની પાનદાની સાચવનારાને તમે “એ મારો ભાઈ છે—તે પ્રમાણે કહે. તે મારો શત્રુ છે. હું તમને સોનાની ચાર ઈટા પહેલાજ આપી દઉં છું. 18 स प्रमाणमिति वाचमुदीर्य, प्राप्य काञ्चनमुदीरितपूर्वम् बीटकं वितरतः श्वपचोऽसौ, प्रातरेव लगति स्म गलेऽस्य // 183 // स मातङ्गः प्रमाणं स्वीकृतं मयेति वाचमुदीर्योक्त्वा, उदीरितपूर्व सुदत्तेन पूर्व कथितम्, ततः काञ्चनं प्राप्य, प्राप्तसुवर्णष्टक: प्रातः एव असौ श्वपचः चाण्डालः बीटकं ताम्बूलं वितरतः मृपाय ददतः, अस्य धनदस्य गले लगति स्म, मालिकति स्मेत्यर्थः // 183 / / वीक्षितोऽसि सुचिरेण मया हा, भ्रातरित्यभिदधत्स रुरोद / आदिदेश नृपतिः कुपितस्तं, वध्यमेव स ततः सुविचितः // 184 // हा इति खेदे ! भ्रातः मया सुचिरेण वीक्षितः असि, इतीत्थमभिदधत् वदन् स श्वपचः हरोद। ततस्तस्माद्धेतोः, श्वपचोऽयं मां वञ्चितवानित्येवं सुविचित्तः अप्रसन्नः, अत एव कुपितः स नृपतिः, तं धनदं वध्यमेव, न तु कारागारादि, आदिदेशाज्ञातवान् // 184 // તે “તમારી વાત મંજુર છે એમ કહી પહેલા કહ્યા પ્રમાણે સોનું મેળવી. રાજાને પાનનું બીડુ આપતાં તેને કીધું કે આ ચાંડાલ છે. આજે સવારે આના ગલામાં ગલા જોડી હા ભાઈ એમ કહેતો પેલો ચાંડાલ રડતો હતો તે મેં લાંબા કાલ સુધી જોયું છે. તેથી અત્યન્ત અપ્રસન્ન થયેલા રાજાએ કપિત થઈને તેને આ વધ્યું છે એની આજ્ઞા આપી. 183184 अब्रवीद् धनद एव ततश्चा-रक्षकं श्वपच एव भवामि / यद्यपि त्वमभिधेहि तथापि, उमापतेः पुरत एव मदुक्तम् // 185 // ततश्च तदनन्तरं च, धनदः आरक्षक राजपुरुषमब्रवीत् / किमित्याह-यद्यपि श्वपचः चाण्डाला
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy