________________ 122 ] श्री शान्तिनापमहाकाव्ये નાંખે. અને દંભથી ભરાયેલા મનવાલે એવો તે જડ સુદત્ત પણ મનમાં વિચારવા લાગે. 178 तच्चिन्तनमेवाहहा स्थगीभृदसकाववटान्तः-क्षिप्तमानुषसमाकृतिधर्मः / दृश्यते तदिह किं स भवेद्वा, बुध्यते विलसितं न विधातुः 1 // 179 // हा इति खेदे, इह नृपसमीपे, असको असौ प्रत्यक्षमेव, स्थगीभृत् ताम्बूलकरइधरः, अवटस्य गर्तस्य (कूपस्य) "ग"वटौ मुवि श्वभ्रे" इत्यमरः / अन्तः मध्ये क्षिप्तस्य पातितस्य मानुषस्य समः तुल्यः आकृतेराकारस्य धर्मः वर्णावयवादिकं यस्य स तादृशः दृश्यते, तत्तस्मात्, किमिति वितर्के, स भवेत् ! ननु स गन्तिः क्षिप्तः, तस्यात्र कुतः संभवः, यत्त्वया तयते इति चेत्तत्राह-वा अथवा, विधातुः भाग्यस्य विलसितं व्यापारः न बुध्यते न ज्ञायते, भाग्याद्धि तथापि संभवति, विघेरचिन्तनीयविधानत्वादिति भावः // 17 // હા આ પાનદાનીવાળી તે મેં સમુદ્રમાં ફેકી દીધેલા મનુષ્ય જેવાજ આકાર પ્રકાર વાળા દેખાય છે. તે અહીં શું તેજ હશે ? વિધાતાનો વ્યાપાર જાણી શકાતું નથી. 179 .. अथ स्वजिज्ञासानिवृत्तये तत्प्रयत्नमाहसंविमृश्य मनसेति स किश्चि-द्वेत्रिणं सविधमाजमपृच्छत् / किं स्थगीभृदवनीशितुरायो, नूतनः किमयमत्र निविष्टः 1 // 180 // स सुदत्तः मनसा इत्युक्तप्रकारं संविमृश्य विचार्य, सविधभाज समीपस्थं किनिद्वेत्रिणं द्वारपालमपृच्छत् , किमित्याह-किमिति प्रश्ने, अवनीशितुः रामः, अयं वर्तमानः स्थगीभृत् ताम्बूलकरकधरः, आद्यः पूर्वतः एव किमिति द्वितीयप्रश्ने, नूतनः अत्र कार्य निविष्टः नियुक्तः 1 // 18 // આમ મનમાં કાંઈક વિચારી તેણે પાસે રહેલા દ્વારપાલને પૂછયું કે રાજાની પાનદાની સાચવનારે આ પહેલાથી જ છે કે આ નવો અહીં નિમાયો છે. 18 तत्प्रवृत्तिमवगम्य यथार्थां, तन्मुखादधृतिमान्स सुदत्तः। तजिघांसनधिया नृपमानो - न्मत्तगीतरतिगायनमूचे // 181 / / तस्य वेत्रिणः मुखात् यथार्था सत्यां तस्य धनदस्य प्रवृत्ति वृत्तान्तमवगम्य, स सुदत्तः अधृतिमान् अनिष्टभयाद् धैर्यरहितः सन् तस्य धनदस्य जिघांसनस्य नाशनस्य धिया बुद्धया, नृपस्य मानोन्मत्तं गीतरतिसंझं गायनं गायति संगीतविद्यया उपजोवतोति गायनस्तमूचे जगौ // 181 // ત્યારે તેના મુખે તેને સાચે વૃત્તાન્ત જાણી અધીરા થયેલા તે સુદરે તેને મારી નખાવવાની અહિથી રાજાના સન્માનથી ઉન્મત્ત એવા ગીતરતિ નામના એક ગવૈયાને કીધું. 1813