________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 121 पादपास्तव सुमानि ददन्ते, मौक्तिकानि जलराशय एते / भूभृतोऽपि मणिसंचयमह, वामिजोऽपि विपुलानि धनानि // 177 // स सुदत्तः अवनिपतेः नृपस्य कनकरथस्याग्रतः, इतीव वक्ष्यमाणं मनसि कृत्य इव आमलको धात्रीफलमिति कोशोक्तेः आमलका धात्रीफलानि लक्षणया तत्प्रमाणानि, धात्रीफलप्रमाणानि यानि मौक्तिकानि तैः पूर्णम् , मरकतस्य गारुत्मतस्य “गारुत्मतं मरकतमश्मगर्भो हरिन्मणि" रित्यमरः / विशालं स्थालम् , न्यासयदुपाहरत् / इतीति किमित्याह--देव ! राजन् ! अदः प्रसिद्धं तावकं तव, शारदेन्दोः करस्येव निर्मलं धाम प्रभावो यस्य तत् शरच्चन्द्रमरीचिनिर्मलं यशः. भुवनान्तः लोके, सर्वतः समुदितमभ्युत्थि तं सत् सङ्गराङ्गणाद्रणभूमेः पलायिचराणां पलायितानां द्वेषिणां तव शत्रूणाम अपयशसा पलायिनाद्धेतोः जातापकीर्तीनाम् , उपरिष्टात् ऊवं स्फुरति शोभते, लोके हि अनेनासौ जित इति अयमधमः स उत्तमः इत्येवं सर्वतः कथनात् , प्रथमं तव द्वेषिणोऽयशस उक्तिस्तदनु च तव यशस इति द्विषदयशस उपरि तव यश इति सर्वत्र व्याप्तं तव यशः, त्वदधिकं न कस्यापि यश इति सारार्थः, यो हि समुदेति स उपरि गच्छति एवेति भावः / तथा, तव तुभ्यम् , पादपाः वृक्षाः सुमानि पुष्पाणि, एते जलराशयः सागराः मौक्तिकानि, भूभृतः पर्वताः राजानश्वापि अहं बहुमूल्यं मणिसंचयं रत्नराशिं वाणिजः श्रेष्ठिनः अपि, विपुलानि प्रचुराणि धनानि, उपहारशुल्कादिरूपेणेति भावः, ददन्ते वितरन्ति. इत्येतत्प्राणयितुमिव मरकतस्थालं न्यासयदि ति सम्मिलितार्थः / / 175-176-177 // તે રાજાની આગલ આંબળા જેવડા મોતીઓથી ભરેલો મરકત મણિને થાલ મુકાવતે જણે એમ કહેતા હતા કે હે રાજા રણક્ષેત્રથી ભાગી ગયેલા શત્રુઓને અપયશના ઉપર શરદ ઋતુના ચંદ્રના નિર્મલ કિરણના સ્વચ્છ તેજવાલે આ તમારો યશ ભેગો થઈને જગતમાં ચારે બાજુ રાયમાન થઈ રહ્યો છે. 175176 | તમને વૃક્ષે કુલ આપે છે. આ સમુદ્રો મોતી આપે છે. રાજાઓ ( અથવા પર્વતે ) ખાણ દ્વારા મણિઓને ઢગલો આપે છે. તે વાણિઆઓ પણ પુષ્કળ ધન આપે છે. ૧૭છા अर्धशुल्कमकरोन्नृपतिस्तं, शुक्लकीर्तिपरिचीतदिगन्तः / कल्कपूरितमना मनसीदं, सोऽप्यचिन्तयदचेतनरूपः // 178 // शुक्लया निर्मलया कीर्त्या परिवीतः आवृतः दिगन्तः येन स तादृशः नृपतिः, तम् सुदत्तम्, अधः शुल्कः राजग्राह्यभागः यस्व तं तादृशम् / यो हि राजग्राह्यः करः, तस्य अर्ध एव तेन दातव्य इत्येवम् अकरोत् / अचेतनः जडः रूपं यस्य सः जडात्मा, स सुदत्तः अपि, कल्केन पापेन "अंहः कल्कमचं पङ्कः" इति हैमः / पूरितं मनः यस्य स तादृशः पापात्मा, मनसि इदं वक्ष्यमाणमचिन्तयत् / / 178 / / ઉજવલ કાર્તિથી વ્યાપ્ત કર્યું છે, દિગંત સુધી જેણે એવા એ રાજાએ તેના શુલ્ક-કરને અર્ધા કરી