________________ पा. विषपदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः। [113 मनोहरः, अत एव उपमातिगा अनुपमेया मूर्तिः यस्य स अनन्यलावण्यशरीरः, त्वं कथं केन प्रकारेण अन्धो पे निपतितः पतितवान् ? इति वृत्तं कथयेति शेषः // 15 // | દેવદત્તે પત્ની સાથે તેનું તે સ્વરૂપ જોઈ વિસ્મય પામીને, પછી હસતાં હસતાં કીધું કે હે બુદ્ધિમાન, આવો અનુપમ રૂ૫વાલો તૂ કૂવામાં શી રીતે પડયો? 151 तनिशम्य स बभाण सधैर्य, भग्नपोतविभवोधसमीपे / तीरमाप्य फलकेन कथंचि-नीरमत्र च निरैक्षिषि पश्यन् // 152 // तद्देवदत्तोक्तं निशम्य, स धनदः, सधैर्यमनाकुलं बभाणोचे, किमित्याह-अन्धुसमीपे कूपस्य नातिदूरे एव प्रदेशे समुद्रे, भग्नपोत विभवः भग्नः पोतः विभवश्च यस्य स तादृशः, अहमिति शेषः, फलकेन काष्ठखण्डेन, कथंचित् येन केन प्रकारेण, तीरमाप्य, पश्यन् इतस्ततोऽन्विष्यन्, अत्र कूपे नीरं जलं निरैक्षिषि अदर्शम् // 152 / / / તે સાંભલી તે ધનદ શૈર્ય સાથે બોલ્યો કે વહાણનું ધન નષ્ટ થયા પછી હું લાકડાના ટુકડાના આધારે કષ્ટથી કાંઠે પહોંચ્યા. આ કૂવા પાસે આવતાં આમાં પાણી જોયું. ૧૫રા एषिकाऽतिवृषिता जलमिच्छु:, कूप एव निपपात जवेन / नैव निर्गमयितुं प्रभुरेतां, पृष्ठ एव निपपात तदस्याः // 153 // एषिका एषा मम भार्या अतितृषिता नितान्तं पिपासिता, अत्र एव जलमिच्छुः, जवेन वेगेन कूप एव पपात, विलम्बस्यासहनादिति भावः / एतां प्रियां निर्गमयितुमुपर्यानेतुं नैव प्रमुः समर्थः, तस्माद्धेतोः, अस्याः प्रियायाः, पृष्ठ एव, निपपात अहमप्यपतम् , एकाकिन्याः अस्या कृपे प्रकारान्तरेणारक्ष्यत्वात् , प्रेमातिशयाच्चेति भावः // 153 // અત્યંત તરસી આ સ્ત્રી પાણીને ઇરછતી વેગથી કુવામાં પડી ગઈ. હું આને કવાથી કાઢવાને અસમર્થ હેવાથી હું પણ આની પાછલ કૂવામાં પડી ગયે. ૧૫મા . नन्वेयं रत्नान्येतानि कूपे कुतः प्राप्तानीत्याशङ्का समाधत्तेरत्नमुख्यमखिलं व्यतरन्मे, संप्ररूढकृपया जलदेवी / सात्त्विकस्य पुरुषस्य हि वृद्धया, देवता हृदि वहन्ति समाधिम् // 154 // . जलदेवी संप्ररूढकृपया मम दुरवस्थां दृष्ट्वा उत्पन्नकरुणया, मे मह्यम् , अखिलं रत्नमुख्यं वस्तु व्यतरत् ददौ, ननु तुभ्यं रत्नदाने जलदेव्याः, को लाभ इति चेत्तत्राह-हि यतः, सात्विकस्य सत्त्वगुणसम्पन्नस्य पुरुषस्य वृद्धया अभ्युदयेन देवताः हृदि समाधि सन्तोषं वहन्ति धारयन्ति