________________ 112 ] श्रीशान्तिनाथमहाकाव्ये यावदागमयते स तु तत्र, पूरुषान् परमपौरुषभाजः / तावदेव कतिचित्समुपेता, न्यक्षिपन् सलिलभाजनमन्धौ // 148 // स तु धनदश्च तत्र कूपे, परमपौरुषमत्यधिकसामर्थ्य ये भजन्तीति तादृशान कृपानिर्गमनसामर्थ्यवतः, पूरुषान् जनान् “स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरा" इत्यमरः / यावत् आगमयते आगमनकालं प्रतीक्षते, तावदेव समुपेताः स्वयं समागताः कतिचित्पुरुषाः सलिलभाजनम् घटादि, अन्धौ कूपे न्यक्षिपन् मुक्तवन्तः जलाहरणार्थमिति भावः // 148 / / જેટલામાં તે ત્યાં બલવાન પુરુષોની આવવાની રાહ જુએ છે તેટલા માં આવેલા કેટલાકએ પાણી કાઢવા સારુ પાત્ર કુવામાં નાખ્યું. 148 रज्जुचालनवशादवबुध्य, स्त्रीसखं पुरुषमेव निरीक्ष्य / तत्स्वरूपमवगम्य च देव-दत्तपोतवणिजे जगदुस्ते // 149 / / रज्जोः उग्रहणदाम्नः धनदकृतस्य चालनस्य गृहीत्वा कम्पनस्य वशाद्धेतोः अवबुध्य कोऽपि रज्जु गृहीतवानस्ति इति ज्ञात्वा, जिज्ञासानिवृत्तये, कृताधोदृष्टिपाताः, स्त्रीसखं खो सखा सहायो यस्य स तं स्त्रीसहितं पुरुषं निरीक्ष्य, तयोः स्वरूपं वृत्तान्तमवगम्य च, ते पुरुषाः, देवदत्तः तन्नामा यः पोतवणिक् तस्मै जगदुः कथयासासुः, तदखिलमुदन्तमिति शेषः // 149 / / દર હલાવાથી જાણીને તે સ્ત્રી સહિત પુચ્છને જોઇને તેને પરિચય મેળવીને તેઓએ વહાણ વ્યાપારી દેવદત્તને કહ્યું. 149 सोऽपि विस्मयपरिप्लुतचेता-स्तत्क्षणादनुचरैः सममेत्य / स्वापतेयदयितायुतमन्धो-मञ्चकेन निरजीगमदेनम् // 150 // सः पोतवणिग् देवदत्तोऽपि, कृतः कूपे दम्पतीसम्भव इति विस्मयेन कौतूहलेन परिप्लुतं व्याप्तं चेतो यस्य स कुतूहलाविष्टः सन् , तत्क्षणात् , अनुचरैः समं सह एत्यागत्य, स्वापतेयेन वित्तेन "वित्तं रिक्थं स्वापतेयं” इति हैमः दयितया भार्यया च युतमेनं धनदं मञ्चकेन काष्ठासनेन वंशादिनिर्मितपीठविशेषद्वारा, अन्धोः कूपात् निरजीगमत् उपर्यानीतवान् // 150 / / તે પણ વિસ્મય પામેલા મનવાળા દેવદરો નકરો સાથે આવી, ધન અને પત્ની સાથે તે ધનદને માંચડાવડે કૂવાથી બહાર કાઢયો. ll૧૫માં सप्रियं स तमवेक्ष्य सरूपं, विस्मितः स्मितपुरस्सरमूचे / ईदृशस्त्वमुपमातिगमूर्तिः, सन्मते ! निपतितः कथमन्धो ? // 14 // स देवदत्तः सप्रियं सपत्नीकम् , सरूपं रूपवन्तं तं धनदमवेक्ष्य, विस्मितः जाताश्चर्यः, अद्भुतसौन्दर्यविलोकनादिति भावः, स्मितपुरस्सरं विहस्य ऊचे, किमित्याह-सन्मते ! सुझ ! ईदृशः