________________ 110 ] भीशान्तिनाथमहाकाव्ये साऽप्युवाच हृषिताखिलरोमा, यद्यवश्यमिदमाचरितासि / देवतार्चनमसौ विदधान-स्तन्न वक्ति गदितोऽपि मघोना // 141 // *मत्समर्पितपितुर्निशितासि-प्रेरणानिधनमापय चैनम् / जल्पतोरिति तयोरविशङ्क-माययौ स लघुखेचरपाशः // 142 // हृषितम् अखिलं रोम यस्याः सा तादृशी पुलकिता सा तिलकसुन्दरी अपि उवाच, यदि अवश्यम् इदम् तद्धननम् , आचरिता असि करिष्यसि, तदा, असौ राक्षसः, देवतार्चनं विदधानः कुवन , पूजासमये इत्यथः, मघोना इन्द्रेणापि गदितः पृष्टः न वक्ति तदा नितरां ध्यानस्थो ज इत्यर्थः / तत्तस्माद्धेतोः / मया समर्पितस्य दत्तस्य ( मम समर्पकस्य दातुः) पितुः निशितस्य तीक्ष्णस्य असेः खड्गस्य प्रेरणात्प्रहारात् , एनं विद्याधरं पवनवेगं निधनं मृत्युमापय मारयेत्यर्थः / इतीत्थं जल्पतोः वदतोस्तयोः सतोः, खेचरपाशः दुष्टः खेचरः विद्याधरः, लघु शीघ्रमेव, अविशवं यथा स्यात्तथाऽऽययौ // 141-142 // ત્યારે રોમાંચ અનુભવતી તે બોલી કે તે તમે આમ અવશ્ય કરી શકશે. દેવતાની પૂજા કરતા તે ઇન્ડે બોલાવ્યા છતાં ય બેલ નથી. 141 તે સમયે મારા પિતાએ આપેલી તલવારના ઘાથી એને મારી નાંખે. આમ તે બંને જણા વાત કરતા હતા ત્યારે તે ક્ષુદ્ર વિદ્યાધર નિઃશંક રીતે ત્યાં આવ્યા. ૧૪રા आपतन्तमवलोक्य तमारा-तस्थिवान् स धनदोऽपि निलीय / खेचरोऽप्युपविवेश स विद्या-देवतार्चनचिकीः शुचिदेहः // 143 // तं राक्षसम् आपतन्तं वेगादागच्छन्तमवलोक्य, स धनदोऽपि आरानातिदूरे एव, निलीय अन्तर्धाय तस्थिवान् , देवताचनं चिकीषतीति स तादृशः देवपूजनेच्छुः, अत एव, शुचिदेहः स्नानादिना पवित्रशरीरः सन् स खेचरः विद्याधरः अपि उपविवेश, आसने इति शेषः // 14 // ધનદ તેને દૂરથી આવતો જોઇ સંતાઇને રહ્યો. તે વિદ્યાધર પણ પવિત્ર દેહવાળે થઈ વિવદેવીની પૂજા કરવાની ઈચ્છાથી બેઠો. 143 बालिकार्पितमसौ करवालं, धारयन् करसरोरुहमध्ये / तर्जयंस्तमिदमभ्यधितारे ! तिष्ठ तिष्ठ शठ ! रे ! क्व नु गन्ता ! // 144 // असौ धनदः बालिकया तिलकसुन्दर्या अपितं दत्तं करवालमसिम् , करः पाणिः सरोरुहं कमलमिव तन्मध्ये धारयन् गृहन् , तं खेचरं तर्जयन भत्सयन इदं वक्ष्यमाणमभ्यधितोक्तवान् , सदेवाह-अरे ! रे ! शठ ! दुष्ट ! तिष्ठ तिष्ठ ! क्रोधे द्विरुक्तिः , क्व नु गन्ता ! पलाय्यान्यत्र गन्तुं * अयं च खङ्गो मत्तात-सत्को प्रायस्त्वया तदा // 344 // (शान्तिचरित्रे)