________________ 108 ] श्रीशान्तिनाथमहाकाव्ये येण वृद्धया नुन्नः प्रेरितः इव, नहि पापवृद्धिं विनोपद्रवोपपात इति भावः / अनुपमौजाः महासत्वः मानां पिशितस्य मांसस्य अशनस्य भक्षणस्य विद्यां बिभर्तीति स तादृशः मर्त्यमांसभक्षकः कोऽपि विद्याधरः इह नगरे समागमत् // 134 / / હર્ષ પૂર્વક ઘણાં વર્ષો પસાર થતાં નગરવાસીઓના મોટા મહાન પાપોથી પ્રેરાયેલે મનુષ્યનાં માંસ ખાવાની વિદ્યાને જાણકાર એવો અનુપમ તેજસ્વી કોઈ પુરુષ અહીં આવ્યો હતો. 134 तेन पौरनिकुरम्बमशेषं, प्राणवृत्तिमुपकल्पयतैव / ग्रस्तमेतदुभयोरपि पुर्यो-नष्टमन्यदविनष्टबलं च // 135 // तेन विद्याधरेण पौरनिकुरम्बं पौरसमूहं प्राणवृत्तिमाजीविकामुपकल्पयता कुर्वता एव एतत् नगरं प्रस्तं भक्षितम् / उभयोरपि पुर्योरेतन्नगरपूर्वनगरयोश्च अविनष्टं बलं सैन्यं कथंचिद्धक्तावशिष्टं बलं चान्यत्सर्व नष्टं पलायितम् // 135 / / તે નગરવાસીઓના સમૂહને પોતાના પ્રાણ રક્ષણનું સાધન બનાવી આ નગરના લોકોને કેળીયો કરી ગયે. બને નગરમાં જે કંઈ બલવાન હતું તે બધું નષ્ટ થઈ ગયું. 135 सम्प्रति स्ववृत्तान्तमाह-- कन्यकाऽहमपि भूपुरहूत-स्याख्ययो तिलकसुन्दरिकेति / सप्तमेऽह्नि भणिताऽहमतोऽह्नः, कोणपेन शृणु सुन्दरि ! किश्चित् / / 136 // मुवि पुरहूत इन्द्र इव तस्य महीन्द्रस्य महेन्द्रम्य, आख्यया नाम्ना तिलकसुन्दरी इति कन्यका अहमपि, अतः अस्मात् अह्नः दिवसात् , सप्तमे व्यतीते अह्नि १कौणपेन राक्षसेन “राक्षसः कौणपः क्रव्याद्" इत्यमरः / भणिता कथिता / किमित्याह-सुन्दरि ! किञ्चित् श्रृणु / / 136 / / હું રાજાની તિલકસુંદરી નામે કન્યા છું. આ દિવસથી ગયા સાતમે દિવસે તે રાક્ષસે મને કીધું કે હે સુંદરી, કાંઈ સાંભ. 136 कि किञ्चिदित्याह-- रत्नसञ्चयपुरे किल वैता-ढ्याद्रिमण्डनममो समभूवम् / भूपतिः पवनवेग इतीड्यो, मत्यजाङ्गलरतिः क्रमतोऽयम् / / 137 / / वैताढ्याद्रेः मण्डनेऽलंकरिष्णौ “अलंकरिष्णुस्तु मण्डनः” इति हैमः ३मणिरिव तत् तस्मिन् रत्नसश्चयपुरे पवनवेग इतीड्यः इत्याख्यः भूपतिः अहं क्रमत क्रमात् मर्त्यस्य मनुष्यस्य जाङ्गले १-कौणप इव कौणपस्तेन / २-राक्षसतुल्येन विद्याधरेण / . ३-भूषणे मणौ मण्युपमे / / ४-मांसे-तद्भक्षणे इत्यथः / ..... ... . .