________________ था. विषपदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः। [107 कीदृशमेतत्पुरमित्याहेर संप्रवेशनविनिर्गमनोभ्यां, युक्तमन्धुविनिवन्धलसवाः / न स्वचक्रपरचक्रभयाभ्यां, संश्रितं जितमहेन्द्रपुरश्रि // 131 // संप्रवेशः पुरप्रवेशद्वारम् , तेन, विनिर्गमनम् नगराद्वहिर्गमनद्वारं च तेन चोभाभ्यां युक्तम् , अन्धोः कूपस्य विनिबन्धेन निर्माणेन कृत्वा लसत् शोभनं वाः जलं यस्मिन् तत्तादृशम् ; स्वचक्रं निजराष्टम् परचक्र परराष्ट्रं च ताभ्यो भोतिभ्यां संश्रितं न, निर्भयमित्यर्थः / जिता महेन्द्रपुरस्य स्वर्गस्य श्रीः येन तत्तादृशमेतत्पुरं निरमासीदित्यर्थः // 131 // આ નગરમાં પ્રવેશ અને નિર્ગમ-નિકળવાના માર્ગોથી યુક્ત એવા કુવામાં અથાગ પાણી રહેલું છે. અને આ નગરને સ્વચક્ર ને પરચક્રનો ભય નથી. ઇન્દ્રપુરને જીતે એવી શોભાવાલું છે. 131 सत्क्रयाणकततिर्विषयेभ्योऽभ्यागमत्प्रवहणैरपरेभ्यः / श्रीयुगादिजिनराज्यवदस्मिन् , भिक्षुकस्य विदितं न च नाम // 132 // अस्मिन् पुरे अपरेभ्योऽन्येभ्यो विषयेभ्यो देशेभ्यः, प्रवहणैः पोतद्वारा, सतामुत्तमानां क्रयाणकाणां प्रयोजनीयखाद्यादिवस्तूनां ततिः राशिः, अभ्यागमत् / तथा, श्रीयुगादिजिनस्य वृषभप्रभोः राज्यवत् , भिक्षकस्य याचकस्य नाम च विदितं शातं न / सर्व अत्र श्रीमन्त एव सन्तीति भावः // 132 // અહીં બીજા દેશોથી વહાણો દ્વારા સારા કરીયાણાના ગંજે આવતા હતા, ને આદિનાથ જિનેશ્વરના રાજ્યની જેમ અહીં ભિક્ષુકનું નામ પણ અને જ્ઞાન ન હતું. 132aa अध्युवास सकलैः सह पोरै-भूपतिस्तदिदमेव सुखाय / इत्यतुल्यमुपकृत्य नृपाय, व्यन्तरः स निजधाम जगाम / / 133 // ततस्तस्माद्धेतोः भूपतिः सकलैः पौरैः सह सुखाय परचक्रादिकृतभयोद्वेगाभावाय, इदमेव पुरमभ्युवास / इतीत्थं नृपाय, अतुल्यम् अद्वितीयं यथा स्यात्तथोपकृत्य. स व्यन्तरः, निजधाम निजस्थानं जगाम // 133 // આ નગરમાં રાજા બધા નગરવાસિયો સાથે સુખપૂર્વક રહેતા હતા. આમ રાજાને અનુપમ ઉપકાર કરી તે વ્યંતર પિતાના સ્થાને ગયે. 133 वत्सरेष्वतिपतत्सु मुदैव, पौरकल्मषसमुच्छ्रय नुन्नः / कोऽपि मर्त्यपिशिताशनविद्या-भृत्समागमदिहानुपमौजाः // 134 // मुदैव प्रमोदैनैव वत्सरेषु वर्षेषु अतिपतत्सु व्यतिपतयत्सु, पौराणां कल्मषस्य पापस्य समुच्छ