________________ 106 ] श्री शान्तिनाथमहाकाव्ये ननु तर्हि कुतः तदर्थ प्रार्थयसे इति चेत्तत्राह-- मां तथाप्यनृणमाचर राजन् ! स्वेप्सितग्रथनताविनियुक्त्या / क्वापि न प्रतिहता खलु शक्ति-व्यंन्तरस्य करणीयपरस्य // 128 // तथापि प्रत्युपकारस्यानपेक्षणीयत्वेऽपि, राजन् ! स्वेप्सितस्य निजेष्टस्य प्रथनतायां करणे वनियुक्त्या व्यापारणेन माम , अनृणम् ऋणरहितमाचर कुरु / स्वानृण्यायैव प्रार्थयामीति भावः / ननु त्वया मम किं साध्यं तत्राह-खलु यतः, करणीयपरस्य कार्यव्यापृतस्य व्यन्तरस्य शक्तिः, क्वापि, प्रतिहता कुण्ठिता न, सर्वमेव कार्य व्यन्तरः साधयितुं शक्नोति, अप्रतिहतशक्तिकत्वात्, एवं च अन्येनासाध्यमपि कार्यमादेष्टुमह सि, इति भावः // 128 / / છતાં હે રાજન ! પિતાને ઇષ્ટ એવા કાર્યની આજ્ઞા કરીને મને ઋણમુકત કરો. કાર્ય કરવામાં તત્પર એવા વ્યંતરની શક્તિ ક્યાંય પણ અવરોધાતી નથી. 128 एवमस्य वचनं विनिशम्य, क्षोणिनायकवरः स बभाषे / त्वत्प्रसादगरुडादरिनागा, मत्पुरं परिभवन्ति यथा न // 129 // व्यन्तरामर ! विधेहि तथा त्व-मागमं सफलयनिजमेव / इत्युदारवचसाऽवनिभत्तुः, सोऽत्र पत्तनमिदं निरमासीत् // 130 // अस्य व्यन्तरस्य एवमुक्तप्रकारं वचन विनिशम्य, क्षोणिनायकवरः राजप्रवरः स महेन्द्रः बभाषे, तदेवाह- त्वत्प्रसादः कृपा एव गरुडः तस्मात् , अरयः शत्रवः एव नागाः सर्पाः, यथा येन प्रकारेण मत्पुरं न परिभवन्ति, व्यन्तरामर ! त्वं निजागमं स्वागमनम् , एव सफलयन् , तथा विधेहि कुरु / इतीत्थम् अवनिभर्तुः राज्ञः उदारवचसा, स व्यन्तरः, अत्र इदं शून्यपत्तनं नाम पत्तनं नगरं निरमासीत् / / 126-130 / / તે વ્યંતરનું આવું વચન સાંભળી તે રાજા બોલ્યો કે—હું વ્યંતર દેવ, તમે પોતાના આગમનને સફલ કરતાં મારા નગરને તમારી પારૂપી ગરુડના પ્રભાવે શત્રરૂપી સર્પો પીંડ નહિ તેમ કરો, તે વ્યંતરે રાજાના ઉદાર વચનથી અહીં આ નગર વસાવ્યું હતું ૧૨૯૧૩ળી टी० अजितप्रभाचार्यकृतशान्तिचरित्रे पुरं चाकारि तेनेदं, पातालपुरनामकम् / प्रवेशनिवेशावेक-कूपेनैवास्य सुन्दर // 332 / / [पृ०२१ मां] रक्षार्थ कूपकस्यापि, द्वितीयं विहितं पुरम् / ततः प्रवहणैरत्र, नानावस्तुसमागमः // 333 / / एवं च विहिता तेन, शून्येयं नगरद्वयी / एकैव रक्षिताऽहं तु, परिणेतुं दुरात्मना // 334 //