________________ था, विजयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः . . [ 105 . आद्यस्वर्गाच्च विच्युतः च्यवितः भवानपि जज्ञे / नृप ! तेन हेतुना, तव अहं मैत्र्यपदं मित्रमस्मि // 124 // હે રાજા ! પરમ શ્રાવક એવો તે જિનદત્ત સૌધર્મ દેવેલેકમાં ઉત્પન્ન થઈ, ત્યાંથી ચ્યવી આપ થયા છે તેથી તમારે હું મિત્ર છું. 124 ये त्वया विरचिता उपकारा--स्तानहं गणयितुं कथमीशः ! काञ्चनक्षितिधरस्य सुवर्णं, कः प्रभुस्तुलयितुं यदि वा स्यात् ? // 125 // त्वया, ये उपकारा विरचिताः कृताः, तानुपकारान् गणयितुं अहं कथमीशः समर्थः ? न कथमपीत्यर्थः / उपकाराणामत्यधिकत्वादिति भावः / यदि वा, काश्चनक्षितिधरस्य सुमेरोः सुवण तुलयितुमियत्तयाऽवधारयितुं कः प्रभुः स्यात् ? न कोऽपीत्यर्थः / यथा सुमेरुसुवर्णतोलनमसंभवि, तथा तवोपकारगणनमपीति / बिम्बप्रतिबिम्बभावेनोपन्यासान्निदर्शनाऽलङ्कारः / / 12 / / આપે મારી ઉપર જે ઉપકાર કર્યો હતો. હું તે ગણવાને સમર્થ શી રીતે થઈ શકું? મેરુ પર્વતનું સેનું તોલવાને કાણુ સમર્થ થઈ શકે ? 12 પા मोचितो नरपतेर्भवताऽहं, यद् द्विरस्मि तदिदं हृदयं मे / सर्वदा न विजहाति ततस्त्वं, कृत्यमादिश किंमप्युचितं मे // 126 // भवता अहं यत् नरपतेः राज्ञः द्विः द्विवारं मोचितः रक्षितः अस्मि, तदिदं रक्षणं सर्वदा मे मम हृदयं न विजहाति विस्मरति, ततस्तस्माद्धेतोः, त्वं मे मम उचितं योग्यं किमपि कृत्यं कायम् आदिश आज्ञापय // 126 / / / આપે જે રાજા પાસેથી મને બેવાર છોડાવ્યો હતો, તે વાતને મારું મન કદી ભુલતું નથી. તેથી જે મારે યોગ્ય હોય તેવા કોઈ કાર્યની કૃપા કરો. 126 ननु उपकारः कर्त्तव्यः, न तु प्रत्युपकारः नेय एवेति नियम इत्येतदाह-- उत्तमा उपकृतेर्निरपेक्षाः, संभवन्त्युपकृतीरपि कृत्वा / वर्षको जलधरोऽमृतवृष्टि-मादधकिमपि वाञ्छति किं वा // 127 // उत्तमाः महीयांसः, उपकृतीः कृत्वा अपि, उपकृतेः प्रत्युपकृतेः, निरपेक्षा निराकांक्षाः संभवन्ति वा यथा, वर्षकः वर्षणोन्मुखः जलधरः मेघः, अमृतस्य जलस्य वृष्टिमादधत् कुर्वन्नपि किमपि प्रत्युपत्कारं वाञ्छति किम् ? नैव वाञ्छतीत्यर्थः / तथा त्वमपि मत्तः किमपि प्रत्युपकृतिं न वाग्छसीति संभवति, इत्यर्थः / अत्र सामान्यस्य विशेषणसमथेनादर्थान्तरन्यासः // 127 // ઉત્તમ પુર ઉપકાર કરીને તેના બદલામાં) ઉપકારની અપેક્ષા રાખતા નથી. શું વરસવાવાળા મેઘ જલને વરસાવતે કંઈ છે છે? નથી જ ઇચ્છતો. ૧૨ના