________________ आ. विजयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः शङ्खदत्त इति नाम वयस्य-स्तस्य शङ्ख इव गोरगुणोऽभूत् / साधुशब्दवसतिः कुटिलत्वं, नो बभार हृदि यो वणिजोऽपि // 109 / / तस्य जिनदत्तस्य, शङ्खदत्त इति नाम / शङ्ख इव गौरः विशुद्धः धवलगुणः रूपं धर्मश्च यस्य स तादृशः वयस्यः अभूत् / यः शङ्खदत्तः, साधु इति शब्दस्य वसतिरास्पदम, साधुशब्दवाच्यः, वणिजः वणिगपि सन् हृदि कुटिलत्वं वक्रत्वं दौर्जन्यं नो बभार धारयामास, वणिजो हि स्वभावत एव कुटिला भवन्ति, किन्तु स पूर्वसुकृतादिना न तथेति भावः / कतिपयस्थाने वणिजः साधुरिति उपनाम, नामोपाधिर्वा भवति, साधुरिति वणिक्शब्पपर्यायश्च, एवं च यः साधुशब्दवसतिः तस्य हदि कुटिलता नेति युक्तमेवेति भावः / श्लेषानुप्राणितोपमा // 109 / / તેને શંખની જેમ પવિત્ર ગુણ વાળે શંખદત્ત નામે મિત્ર હતો. સાધુ એવો અટકવાળો જે શંખદત્ત વણિક હોવા છતાં મનમાં કુટિલતા રાખતો હતો નહિ. 19 हट्टविष्टरनिविष्टमदुष्टं, शङ्खदत्तमपरेधुरुपेत्य / कोऽपि तस्करवरोतिमहापं, रत्नमेकमुपदर्शयति स्म // 110 // अपरेयुरेकदा कोऽपि तस्करवरः, चौरतमः, उपेत्यागत्य, अदुष्टं निर्दोष साधुचरितम् , हट्टस्यापणस्य विष्टरे आसने निविष्टमुपविष्टं शङ्खदत्तम् , अतिमहार्य बहुमूल्यमेकं रत्नमुपदर्शयति स्म // 110 // એક દિને આસન ઉપર બેઠેલા નિર્મલ એવા તે શંખદત્તને કઈ ચેર પાસે આવીને એક અમૂલ્ય રત્ન બતાવ્યું હતું. 110 मूल्यमस्य वणिजाप्यनुयुक्त--स्तस्करः प्रवदति स्म स तेन / किश्चनापि यदिदं लभते द्राक् , साधुरत्न ! मम यच्छ तदेव // 11 // तेन वणिजा शङ्खदत्तेनापि, अस्य रत्नस्य मूल्यम् , अनुयुक्तः पृष्टः स तस्करः प्रवदति स्म / साधुरत्न ! साधुशिरोमणे! इदं रत्नं यत्किञ्चनापि स्वल्पमपि लभते प्रामोति, तदेव मम द्राक् शीघ्रं यच्छ / यत्किञ्चत्तव योग्यं प्रतिभाति तदेव यच्छेत्यर्थः // 111 / / . તે વણિકે તે રત્નનું મુલ્ય પૂછયું ત્યારે તે ચોર બે કે હે મોટા સાધુ, જે કાંઈ આ રત્નનું મળતું હોય તે જલદી મને આપી દે. 111 दस्युमेतमनवेत्य स चापि, मुग्धमेव कलयन् कलयापि / संमदेन कनकस्य सहस्रा-ण्यार्पयद्दश तदैव धनाढ्यः // 112 // स धनान्यः शङ्खदत्तः एतं दस्युं चौरममवेत्याऽज्ञात्वा, कलया आचरणेन, वृत्या अपि च मुग्धं भद्रिकपरिणाम मुर्खमेव कलयन जाना, नहि धीमान रत्नं यस्किन्चिन्मूल्येन विक्रीणा