________________ ___ला. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [ 99 अपरेद्यरेकदा असूयया दोषारोपेण सूचिताः ख्यातास्तैः / यद्वा असूयासु उचितैः अभ्यस्तैः "अभ्यस्तेऽप्युचितं न्याय्यम्" इत्यमरः / द्विषद्भिः शत्रुभिः, बलानां सैन्यानामोधैः समुहैः, तस्य महेन्द्रस्य पुरं तिलकरत्तनम् , xविहितैः कृतैः गर्जितैः घोरैः भयानकैः शारदैः शरद्भवः, वारिदैः मेघैः, शरत्पदेन तेषां निष्फलतोक्ता / विकर्तनस्य सूर्यस्य “विकर्त्तनार्कमात्तण्डे"त्यमरः / बिम्बं मण्डलमिव, अरोधि रुरुधे // 102 // એક દિને તેના શત્રુઓએ ઈર્ષાથી ઘોર ગર્જના કરતા એવા શરદ ઋતુના વાદળાઓ વડે સૂર્યની જેમ સૈન્ય વડે તેના નગરને ઘેરો ઘાલ્યો. 102 तं तदा वसुमतीशतमन्यु, व्यन्तरोऽभ्यधित कोऽपि सुपर्वा / पूर्वजन्मसुहृदस्मि तवाह, वारिवाह इव तापनिहन्ता // 103 / / तदा, तं वसुमत्यां पृथिव्यां शतमन्युरिन्द्र इव तं महीमहेन्द्रम् , कोऽपि अज्ञातनामा, सुपर्वा देवः व्यन्तरः व्यंतरनिकायवर्तिदेवः अभ्यधित अचकथत् / किमित्याह-तव अहं वारिवाहः मेघ तापस्य आतपजन्यस्य, अथ च विपजन्यस्य निहन्ता, छायाजलादिप्रदत्वेन, सहायसप्पादनेन च विनाशकः, पूर्वजन्मनि सुहन्मित्रमस्मि, अतो मत्तो वैरितो मा मैषोरिति भावः // 103 // ત્યારે તે રાજાને કોક વ્યંતર દેવે કીધું કે વાદળની જેમ તાપનો નાશ કરનાર હું તમારો પૂર્વજન્મને મિત્ર છું. 1 03 भूभुजापि कथमित्यनुयुक्ते, व्यन्तरः प्रणिजगाद सहर्षम् / . दक्षिणार्धभरतावनिवामा-भूपणं-जयति चन्द्रपुरं तत् // 104 / / भूभुजा राज्ञा महेन्द्रेण, कथं केन प्रकारेण पूर्वजन्मसुहृत्त्वं मे, इतोत्थम् , अनुयुक्ते पृष्टे सति व्यन्तरः, सहर्ष जगाद। तदेवाह-दक्षिणे अधभरते दक्षिगाद्वभरते भरतार्द्ध या अवनिः पृथ्वी सैव वामा स्त्री तस्याः भूषणम् , तत्प्रसिद्धं चन्द्रपुरं तन्नामपुरं जयति सर्वोत्कर्षेण वत्तते // 104 // રાજા વડે કેમ? એ પ્રમાણે પુછાયે છતે ખુશ થઈ તે વ્યંતર કહેવા લાગે કે દક્ષિણાધભરતરૂપી સ્ત્રીના ભૂષણ સમાન ચંદ્રપુર નામનું પ્રસિદ્ધ નગર છે. - रक्षति स्म किल चन्द्रयशास्त-त्पत्तनं वसुमतीहृदयेशः / खेचरीभिरुदगीयत यस्य, व्योम्नि विक्रमकथा दयितेषु // 105 / / ___ तत् चन्द्रपुरं नाम पत्तनं पुरम् , वसुमत्याः पृथिव्याः हृदयेशः पतिः, चन्द्रयशाः तन्नामा राजा, रक्षति स्म, किलेत्यैतिहथे / यस्य चन्द्रयशसः, विक्रमस्य शौयस्य कथा आख्यानम् , व्योम्नि आकाशे, खेचरीभिः विद्याधराङ्गनाभिः, दयितेषु प्रियेषु विषये (स्वस्वपतिं प्रति), उदगीयत गीयते xविहितानि कृतानि. गर्जितानि गर्जनानि चैस्तै|रैः /