________________ [90 ] ___ व्याख्या-अम्भोजनेत्रे !-अम्भोजे कमले इव नेत्रे यस्याः सा तत्संबोधने / कमललोचने ! वातहेतो:-तातस्य पितुः हेतोः कृते / भोज्यानि-ओदनादीनि, भक्ष्याणि / सम्पादय-विधेहि / निष्ठानंतेमनं 'स्यात्तेमनं तु निष्ठान' मित्यमरः / इष्टान्नं ताताभिलषितभोज्यम्, समस्ते तु-निष्ठानमिष्टानं-घृतपुरादिमधुरपक्वान्नम् / अपि-पुनः / प्रयुङव-कुरु / तथा विलोलचेलाञ्चलवीजनेन-विलोलस्य निरन्तरं चालितस्य चेलाय वस्त्रस्य यदञ्चलं प्रान्तभागः तस्य वोजनेन मक्षिकादिनिवारणार्थ चालनेन / एतेन सत्कासति. शयविधानमाह / इम-मम पितरं / लघु-शीघ्रं / भोजय-अभ्यवहारय, दूरागतत्वाच्छ्रान्तत्वाद् बुमुक्षापीडितो ऽस्तीतिहेतोरिति भावः / उपस्थितं दुर्लभमतिथिं सद्य एवानुगृह्णन्ति सन्तः // 24 // ननु इमं भोजयेत्येव कथमुच्यते, मामपि भोजयेति कथं नोक्तमित्याशङ्कायामाह-बाढमितिबाढं शिरोर्तिव्यथमानदेहो, भोक्ष्ये प्रिये ! तद्विनिवृत्तिमाप्य / उत्तिष्ठमाना हि रुजा निवा, प्रवर्द्धमाना खलु दुर्निवारा // 25 // व्याख्या-प्रिये-दयिते ! बाढम्-अत्यन्तम् / शिरोर्तिव्यथमानदेहः-शिरसि मस्तके या अर्तिः पीडा तया कृत्वा व्यथमानः पीड्यमानः देहः यस्य स तादृशः / अत्र देहव्यापिपीडोक्त्या पीडाधिक्यं सूचितम् / तद्विनिवृत्तिम्-ततः तादृशपीडातः विनिवृति शान्तिम् / आप्य-प्राप्य / भोक्ष्ये-अहमित्यध्याहारः / साम्प्रतं नेतिभावः / ननु दुर्लभाऽतिथिप्राप्त्या सहैव भोक्तव्यम् , पीडासत्त्वेऽपि त्वया पीडायाः पश्चादपिवारणसम्भवात् / एतादृशातिथेश्च पुनर्लाभासंभवाद, सहभोजनाकरणे अवज्ञाप्रतीतेश्च, तत्राह-हि-यतः / उत्तिष्ठमाना-उद्भवन्ती प्रथमावस्थापन्नेति यावत्, रोगो रुजा रुगातङ्कः इति हैमोक्तेः' रुजा-रोगः / निवानिवारणयोग्या भवतीति शेषः / दृढमूलत्वाभावादिति यावत् / प्रवर्धमाना-दृढमूलतया वृद्धिं प्राप्यमाणा / दुर्निवारा-वारयितुमशक्या / खल्विति निश्चये “चिन्तनीया हि विपदामादावेव प्रतिक्रिया" इत्युक्तेरिति भावः / अत्र स्वयं भोजनाकरणे वर्धमानायाः रुजायाः निवारणाशक्यत्वरूपसामान्यार्थेन समर्थनाव सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः // 25 // - अथ तदनन्तरं दम्पतीकर्त्तव्यमाह-इति प्रियामितिइति प्रियां प्रत्यभिधाय दम्भात् , क्षणं स शय्यामधिशय्य शिश्ये / निर्माय निर्मायतयैव तत्त-दबूभुजत् सा श्वशुरं सुभक्तिः // 26 // व्याख्या-प्रियां-स्वकान्तां प्रति / इति–उक्तप्रकारम् / अभिधाय-कथयित्वा / स-कपिलः / क्षणं-मुहूर्त / दम्भात-व्याजात् / शय्यां- तल्पम् / अधिशय्य-अध्याश्रित्य / शिश्य-शयितवान् /