________________ [91 ] सा-सत्यभामा / सुभक्ति:-सुशोभना भक्तिः पूज्येष्वनुरागो यस्याः सा, तादृशी सती। निर्मायतया-मायावाः अलीकप्रतिक्रियायाः, निर्गता रहिता, निर्माया-सद्भावा, तस्या भावस्तत्ता तया निर्मायतया सद्भावनया, , एवकारेण मायायास्सर्वथाऽभावस्सूचितः / तत्तद्-बहुविधम् / निर्माय-विधाय भोज्यादिकमिति शेषः। श्वशुरम्-निजपतिपितरम् / अबूभुज-भोजयति स्म // 26 // अथ तदनन्तरं तञ्चित्तवृत्तिमाह-रसासुराणामितिरसासुराणामवतंसमेतं, वेदान्तविद्याविदुषां सुमुख्यम् / अभ्यागतंतं गुरुमाशयित्वा, कृतार्थमात्मानमर्मस्त सापि // 27 // न्याख्या-रसासुराणां-रसायाः पृथिव्याः सुराः देवाः, रसासुरा भूसुरा ब्राह्मणाः, तेषाम् / अवतंसंभूषणभूतम् / वेदान्तविद्याविदुषां-वेदान्तस्याध्यात्मनः विद्या तस्या विदुषां प्राज्ञानां, सुमुख्यं प्रधानतरम् / एतम्आगतं / तं-प्रसिद्धम् / अभ्यागतम्-अतिथिं / गुरुं-श्वशुरं, पूज्यम् / आशयित्वा-भोजयित्वा / साऽपिसत्यभामाऽपि / आत्मानं-स्वं / कृतार्थ-कृतकृत्यम् / अमंस्त-मेने, गुरुसेवा हि जन्मनः फलमितिभावः // 27 // अथ तदनन्तरं कपिलकृत्यमाह विलम्ब्येतिविलम्ब्य कञ्चित् समयं विनिद्रः, समुत्थितः सोऽपि पुनर्वितन्द्रः / ऊचे प्रियामाशयमां समीर-भवा शिरोर्तिय॑वृतन्ममापि // 28 // व्याख्या-कश्चित समयं-स्वल्पकालं / विलम्ब्य-व्यतीत्य / विनिद्रः-उबुद्धः। पुन:-मूयः। वितन्द्रः-विगता तन्द्रा यस्य स वितन्द्रः, गतालसः सन् / समुत्थितः-उत्थायोपविष्टः। स:-कपिलः / अपि मम-मेऽपि। समीरमवा-समीरः वायुविकारः तेन भवति उत्पद्यते या सा तादृशी / शिरोऽति:शिरसः मस्तकस्य अतिः पीडा / न्यवृतत-निवृत्ताऽभूद, इति हेतोरिति शेषः / मामाशय-भोजय माम् इति / प्रियां-निजकान्ताम् / ऊचे-कथितवान् // 28 // अथ तलियाकृत्यमाह-तदैवेति। तदैव संसाध्य च साधु भोज्यं, सा भोजयामास तमाशु साध्वी। कलावतीनां हि कुलाङ्गनानां, पाकक्रियायां न भवेद्विलम्बः॥२९॥ व्याख्या-च-पुनः / सा साध्वी:-पतिव्रता सत्यभामा सा। सदैव तत्कालमेव / साधु-उत्तमं / 'भोज्यं भक्ष्य / संसाज्य-सम्पाथ / माशु-शीघ्रम्। सं-स्वप्रियं, कपिलम् / भोजयामास आशयामास / '