________________ [ 92 ] ननु कमियच्छीघ्रम् , पाकसम्पत्ति:-तत्राह / हि-यतः / कलावतीनां-पाकादिक्रियाकलाचतुराणां / कुलाजनानां-कुलवधूनां / पाकक्रियायाम-रसवतीक्रियायां / विलम्ब:-कालक्षेपः / न-नैव / भवेत-स्यात् / कुलस्त्रियो हि शीघ्रं पार्क कुर्वन्ति, तक्रियायां निपुणत्वादित्यर्थः, तत्कृतशीघ्रपाकरूपस्य विशेषस्य कुलाङ्गनाकत कशीघ्रपाककरणरूपसामान्यार्थेन समर्थनात्सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः // 29 // अथ तदनन्तरम् सत्यभामाचित्तवृत्तिमाह - भृशमितिभृशं पृथग्भोजनकर्मतः सा, न तत्सुतं तं कलयाञ्चकार / चिराद्वयस्यावपि सङ्गतौ य-न भिन्नपंक्त्या भुजिमादधाते // 30 // व्याख्या-भृशम्-अत्यन्तं / पृथग्भोजनकर्मतः-पृथक् भिन्नतया यद् भोजनस्याशनस्य कर्म क्रिया ततः हेतोः। सा-सत्यभामा। तं-कपिलं। तत्सुतं-धरणीजटपुत्रं / न-नैव / कलयाञ्चकार-अमन्यत् / तत्र युक्तिमाह। यत्-यस्माद्धेतोः। वयस्यौ-सखायावपि। चिराव-दीर्घकालानन्तरं। सङ्गतौ-मिलितौ। मिन्नपंक्त्या-भिन्ना पूर्वापरीभावेनातिरिक्ता या पंक्तिः श्रेणी तया कृत्वा, भिन्नपंक्त्युपवेशनेनेति यावत् / भुजि-भोजनक्रियां / न-नैव / आदधाते-कुरुतः / पितापुत्रयोः किमु वक्तव्यमिति भावः / अत्र तस्याः तस्य तत्पुत्रत्वाभावकलनरूपविशेषार्थस्य वयस्ययोरपि भिन्नपंक्त्या भोजनाऽकरणरूपसामान्यार्थेन समर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः / वस्तुतस्तु स न तत्पुत्रः भिन्नपंक्त्या भोजनकरणात् / पितापुत्रौ हि न भिन्नपंवत्या भोजनं कुरुतः, वयस्ययोरपि भिन्नपंक्त्या भोजनाकरणात् ,इति व्याप्तिप्रदर्शनपूर्वकानुमानमेवेति // 30 // ननु यदि तस्य यथार्थतः शिरोतिः, तदैतदनुमानं नावसरप्राप्तमित्यत आहे--प्राप्यावकाशमिति प्राप्यावकाशं तदहं कथञ्चित्, स्वरूपमम्य श्वशुरं यथार्थम् / यथार्थवादाकलितोरुकीर्ति, प्रक्ष्यामि संख्याऽमितवाग्विलामा // 31 // व्याख्या-तत-तस्मात् भिन्नपंक्त्या भोजनकरणाद्धेतोः। कथञ्चित-केनाऽपि प्रकारेण, कपिलस्य स्थानान्तरगमनादिना इत्यर्थ / अवसरम्-अवकाशम् / प्राप्य-लब्ध्वा / अहं-सत्यभामा / संख्याऽमित्वाग्विलासा-" चर्चा संख्या विचारणा" इत्यमरोक्तेः हैमोक्तेश्च संख्यायां विचारणायां प्रमाणैरर्थपरीक्षायां यद्वा संख्यया ज्ञानेनामितोऽतुल्योऽपरिमितो वा वाचां विलासः स्फूर्तिर्यस्याः मा तादृशी, एतेन परहस्थवार्ताप्रहणातुरी सूचिता / वागविन्यासेनावय॑ मर्मस्फोरणाव / ननु स सत्यमेव वर्ददित्यत्र कस्तव प्रत्ययः नत्राह यथार्थवादाकलिलोमीतिम-अर्थममतिक्रम्य यथार्थ सत्यं यो वादः बदनं तेनाकल्पिता प्राप्ता उरु: महती