________________ [93] कीतियन तं तादृशं / श्वशुरम्-पत्युः पितरम् / अस्य-कपिलस्य / स्वरूपम्-कुलादिविषयकयथास्थिततत्त्वम् / प्रक्ष्यामि-जिज्ञासिष्यामि / अष्टे वस्तुन्याप्तवचनमेव प्रमाणमिति भावः // 31 // अथ कपिलस्य स्थलान्तरगमनमाह-विचिन्त्येतिविचिन्त्य चैवं कपिलप्रिया सा, स्थिरेव यावत् स्थिरतां जगाहे। ताम्बूलमस्मै कपिलः प्रदाय, तावत् प्रतस्थे स विमृश्य कृत्यम् // 32 // व्याख्या-सा-पूर्वोक्तविचारसंलग्ना / कपिलप्रिया-कपिलस्य प्रिया कान्ता सत्यभामा / एवंपूर्वोक्तप्रकारम् / विचिन्त्य-विचार्य च / यावत-यदवधि / स्थिरेव-पृथिवी इव "रसा विश्वंभरा स्थिरा।" इत्यमरः। स्थिरता-निरुद्वेगत्वम् / एतेन तस्या गम्भीरता सूचिता / जगाहे-धृतवती / तावत-तदवध्येव / स:-कपिलः / अस्मै-स्वपित्रे / ताम्बूलं- नागवल्लीदलं। प्रदाय-समर्प्य / कृत्यं-कार्यान्तरं / विमृश्यविचार्य / प्रतस्थे–प्रस्थितवान् / कार्यार्थ स्थलान्तरं गतवानित्यर्थः // 32 // अथ सत्यभामायाः कृत्यमाह-सा सत्यभामेतिसा सत्यभामा श्वशुरस्य तस्य, समीपमागत्य निपत्य पादौ / संयोज्य हस्तौ कमलप्रशस्तो, वचस्विनी वाचमुवाच धीरा // 33 // व्याख्या-सा-प्राप्तावसरा। धीरा-धैर्यशालिनी। वचस्विनी-प्रशस्तं वचो यस्याः सा तादृशी, पटुवाक् / सत्यभामा तस्य-गृहागतस्य / श्वशुरस्य समीपम्-अन्तिकम् आगत्य समागम्य / पादौ-श्वशुरचरणौ। निपत्य-प्रणम्य। एतेन तस्य अनुकूलीकरणविधिः सम्पादितः / कमलप्रशस्तौ-कमले पद्म इव प्रशस्तौ शोभनौ पद्ममनोहरौ / हस्तौ-करौ। संयोज्य-अञ्जलिं बद्ध्वेत्यर्थः; एतेन विनयातिशयः सूचितः / वाचम्-वक्ष्यमाणवचनम्। उवाच-वक्तुमारब्धवती, विनयेनानुकूल्यप्रश्नं कृतवतीत्यर्थः // 33 // अथ तस्या वचनमेव प्रपञ्चयति-प्रसादमाधायेतिप्रसादमाधाय निवेदयन्तु, ममाग्रतः सम्प्रति पूज्यपादाः / किमङ्गजो वस्तनयः किमाहो-स्विजातिजातः परिपालितोऽयम् // 34 // व्याख्या-पूज्यपादाः-पूज्यौ पादौ येषां ते तादृशाः आदरार्थे बहुवचनम्, वन्द्यचरणाः / सम्पतिअधुना / प्रसाद-प्रसन्नताम् / आधाय-धृत्वा, अन्यथा अयथार्थकथनमपि सम्भाव्यते इति भावः / मम