________________ [94] मे। अग्रत:-पुरः / निवेदयन्तु-कथयन्तु, ननु कस्तव प्रश्नः, तदाह / अयं-कपिलाख्यः / तनयः- पुत्रः / व-युष्माकम् / अङ्गजः-अङ्गाजातः स तादृशः औरसः। किम्-इति प्रश्ने। आहोस्विद्-अथवा / जातिजात:-जातौ स्वसमानवणे 'ब्राह्मणज्ञातौ' जातः उत्पन्नः / परिपालित:-भवा, अनाथत्वात्संरक्षितः, किमिति प्रश्ने // 34 // अथ तद्विषये विकल्पान्तरमाह-अन्यस्येतिअन्यस्य कस्यापि महानुभाव-र्दयाऽनुरोधाद्विभृतोऽथवाऽपि / कृष्यादिनिष्पत्तिविधानहेतोः, क्रीतः किमेष प्रतिपन्न एव ? // 35 // व्याख्या-अथवेति-पक्षान्तरे। महानुभाव:-महान् अनुभावः प्रभावः आशयो वा येषां तैस्सादृशैः, उदाराशयैः / दयानुरोधाद्-दया कृपा तस्याः अनुरोधात आलम्बनाद्धेतोः, अनुगृह्मेति यावत ! कस्यापिअनिर्दिष्टनाम्नः। अन्यस्य-इतरस्य, ब्राह्मणादन्यस्येत्यर्थः, तनय इति शेषः। विभृतः-पोषितः ? कृप्यादिनिष्पत्तिविधानहेतो:-कृषिः क्षेत्रादिकर्षणजन्यसस्यादिसाधनम्, तदादेः कृषिगृहकार्यप्रभृतेः निप्पत्तिः सम्पत्तिः तस्याः विधानं करणं तद्धेतोः, तदर्थम् / एष-कपिलाख्यः / क्रीत:-द्रव्यविनिमयेन वशीकृतः, क्रीतदासः / प्रतिपन्नः-स्वीकृतः, प्राप्तः परिचितः / एव-वा किम् , कतमोऽयमिति प्रश्नः // 35 // अथ कदाचित्कपिलानिष्टादिसंभावनया मिथ्यावदनं सम्भाव्याह-तथ्यमितितथ्यं न चेच्छंसत सद्गुणौधै-रशेषसंसत्स्वपि शंसनीयाः / तद्ब्रह्महत्यादिककर्मजन्यै-लिप्यध्व एनोभिरवश्यमेव // 36 // व्याख्या-सद्गुणौधैः-सन्तः परमार्थभूताः प्रशस्ता वा मान्यां वा ये गुणाः तेषामोधैः समूहैःकृत्वा / भशेषसंसत्सु-अशेषा सकला या संसदः सभाः तासु निखिलसभासु / शंसनीया:-कीर्तनीयाः / अपि-पुनः यूयमिति शेषः / तथ्य-सत्यं / चेत्-यदि / न-नच / शंसत-भाषत / तत्-तदा / ब्रह्महत्यादिककर्मजन्यैःब्रह्मणो हननं ब्रह्महत्या तदादिकं सुरापानादिकं यत्कर्म किया तज्जन्यैः तदुद्भवैः एनोभि:-पापैः / अवश्यमेष-ध्रुवमेव / लिप्यध्वे-युक्ताः स्युः, मिथ्यावदने ब्रह्महत्यादिपापस्य धर्मशास्त्रे प्रतिपादनादितिभावः // 36= अथ च तच्छ्रुत्वा धरणीजटोक्तिमाह-इतीरित इति - इतीरितः सोऽपि तयैव वध्वा, ब्राह्मण्यचञ्चुः स्फुटमाचचक्षे / न यस्य लोकंद्वयसाधनेच्छा, स एवं मिथ्यावचनं ब्रवीति // 37 //