________________ [89 ] द्विजेश-विप्रवरं धरणीजटम् , अथ च चन्द्रम् / द्राक-झटिति / अनेनादरातिशयो हर्षावेगश्च ध्वन्येते / प्रत्युजगाम-स्वागताय संमुखं ययौ / अथ च चन्द्रमिव पितरं दृष्ट्वा पितृचन्द्रं वा दृष्ट्वा रत्नाकररूपस्स ववृधे / अत्र श्लेषानुप्राणितो रूपकालङ्कारः // 21 // अथागते तस्मिन् कपिलभक्तिप्रकारमाह-तातक्रमाब्जे इतितोतक्रमाब्जे अभिवाद्य पाद्य, सम्पाद्य सद्यः परिमृज्य भक्त्या / तेनैव चात्मानमयं स्वमौलौ, निवेशितेनामलमाश्वमस्त // 22 // व्याख्या-तातक्रमाब्जे-तातस्य पितुः क्रमौ चरणावेवाब्जे कमले तातक्रमाब्जे, पितृचरणकमलयुग्मम् / अभिवाद्य-प्रणम्य / पाद्यम्-पादप्रक्षालनार्थ उदकम् , 'पादार्थमुदकं पाद्यं पादाय वारिणी'त्यमरः / सम्पाद्यआनीय / सद्यः-तत्क्षणमेव / भक्त्या -अनुरागेण / परिमृज्य-प्रक्षाल्य ! तेनैव-चरणोदकेनैव च / स्वमौलौ-स्वस्य निजस्य मौलौ मस्तके, निजमूनि / निवेशितेन-कृतेन सिक्तेनेत्यर्थः / अयं-कपिलः / आत्मानं-स्वम् / आशु-शीघ्रम् / अमलं-निर्मलम्, कृतकृत्यमिति यावत् / अमंस्त-मेने / पितृपादजलं वीर्थजलमिव दुर्लभं पावकञ्चेति भावः / एतेन भक्त्यतिशयः सूचितः // 22 // अथ सत्यभामापरिचयमाह-भद्रासने इतिभद्रासने तं विनिवेश्य सोऽथ, प्राणीनमत् तामपि सत्यभामाम् / फलानि पुष्पाणि च धारयन्ती, पुरो वधूस्ते नमतीति जल्पन // 23 // व्याख्या-अथ-पाद्यायनन्तरम् / स-कपिलः / तं-स्वपितरम् / भद्रासने-भद्रमुत्तमं यदासनं पीठ तद्भद्रासनम्, तस्मिन् , उत्तमासने / विनिवेश्य-उपवेशयित्वा / वधूः-पुत्रवधूः / ते-तव / नमति-प्रणमति। इति-इत्यं / जल्पन्-वदन् / फलानि पुष्पाणि च-कुसुमानि फलानि च पूजार्थमिति भावः / पुर:-धरणीजटाने / धारयन्ती-स्थापयन्तीं / तां-स्वस्त्रियम् सत्यभामां तन्नामसत्यकिकन्यामपि / प्राणीनमत्-प्रणाम कारयति स्म // 23 // अथ तद्भोजनार्थ कपिलस्य प्रियायै आदेशमाह-भोज्यानीतिभोज्यानि सम्पादय तातहेतो-निष्ठानमिष्टान्नमपि प्रयुङ्व / अम्भोजनेत्रे ! लघु भोजयेम, विलोलचेलाञ्चलवीजनेन // 24 //