________________ [88] व्याया-तस्मिन्-रत्नपुरे / यद् उन्नतम्-उच्चं “तुङ्गमुचमुन्नतम्” इति हैमः / दुर्ग-कोट्टम्,कोट्टदुर्गे, इति हैमः / कोट्टमेवात्युन्नतमित्यर्थः / इत:-कोट्टादपि / हर्म्यचक्रम्-हाणां धनिकावासानां चक्रं समूहम् , उन्नतमित्यनुषज्यते / ततः हालेरपि / क्षितिपालसम-क्षितिपालस्य राज्ञः सद्म भवनम् राजप्रासादमित्यर्थः, उन्नतमित्यनुषज्यते / ततः-राजप्रासादादपि / सतां-श्रावकाणां सज्जनानां वा / औन्नत्यमयं-उच्चस्त्वप्रचुरम्, सर्वोच्चमित्यर्थः / तत्-प्रसिद्धं / जैनायतनं-जिनेन्द्रमन्दिरं स धरणीजटः / मेने–अमंस्त / अत्र पूर्वपूर्वविशेषापेक्षयोत्तरोत्तराणां विशेषतरतमत्वेन स्थापनादेकावल्यङ्कारः / यद्वा राजप्रासादादयं जैनायतनं उन्नतमित्यनुषज्यते दृष्ट्वेति शेषः, सतां सद्वस्तूनाम् औन्नत्यमयमुन्नतिप्रधानमतिश्रेष्ठ तद्रनपुरं स मेने अमंस्त / अत्र पूर्वपूर्व विशेष्यस्य दुर्गादेः उत्तरोत्तरं विशेषणत्वेन स्थापनादेकावल्यलङ्कारः // 19 // अथ तस्य कपिलगृहप्राप्तिमाह-पदे पदे इतिपदे पदे प्रेक्षणकौतुकानि, स प्रेक्षमाणः प्रमदेन तत्र / प्रश्नैरनेकैरुपलब्धमेष प्राविक्षदुच्चैः कपिलस्य सौधम् // 20 // व्याख्या स एष:-रत्नपुरस्थहादिदर्शनसंलग्नचेताः धरणीजटः / तत्र-रत्नपुरे / प्रमदेनहर्षपूर्वकम् / पदे पदे-स्थाने स्थाने / प्रेक्षणकौतुकानि-प्रेक्षणार्थमवलोकनार्थ यानि कौतुकानि प्रदर्शनीयानि कुतुहलानि / प्रेक्षमाणः-अवलोकमानः 'कौतुकं च कुतूहलम्' इति हैमः / अनेकैः-बहुविधैः / प्रश्न:जिज्ञासाभिः / उपलब्ध-प्राप्तम् / कपिलस्य-तदाख्यस्वपुत्रस्य / उच्चैः-उन्नतं / सौधम्-प्रासादम् / प्राविक्षत्-प्रविष्टवान् // 20 // अथ तदा कपिलकृत्यमाह-रत्नाकरस्तम् इति - रत्नाकरस्तं कपिलो द्विजेशं. हर्षादसंमानिव सद्रसोत्थात् / मर्यादया स्थापितसत्त्वराशिः, प्रत्युजगामाभ्युदितं ततो द्राक् // 21 // ___ व्याख्या-मर्यादया-स्वोचितस्थित्या वेलाद्यनुल्लङ्घनादिरूपमर्यादया च / स्थापितसत्त्वराशि:-स्थापितः स्वान्तः रक्षितः सत्त्वानां 'जीवस्यादसुमान् सत्त्वम्' इति हैमोक्तेः, प्राणिनामथ च विनयादिसत्त्वगुणस्य राशिः समूहः येन स तादृशः / रत्नाकर:-जलनिधिरूप: ज्ञानविनयादिरत्ननिधिः / कपिल:-तन्नामा पुत्रः / तत:-धरणीजटम् पितरं प्राप्तं विलोक्य / सद्रसोत्यात-सन् वर्तमान उत्कृष्टो वा यो रसः पितृभक्त्यादिरूपोऽनुरागः जलश्च वदुत्थः तदुद्भवः तस्मात् / हर्षात्-संमदाव लक्षणया तरङ्गाच / असंमान्-न संमातीत्यसंमान् स्वात्मनि अपरिच्छिन्नः। इव-सन् / अम्युदितम्-अभ्यागतम् , अथ चोदयं प्राप्तं नं प्रत्यक्षदृश्यमानं /