________________ [87 ] कुटः शालः पलाशी द्रुमागमाः” इत्यमरोक्तेः शाला वृक्षाः तेषां छायाभिः कृत्वा निषिद्धा निवारिताः आतपानामुष्णकिरणकिरणानां सञ्चयाः श्रेणयः यत्र तादृशानि, वृक्षाणामतिघनत्वात्पल्लवप्रचुरत्वाचेति भावः / एतेन शैत्यसम्पक्तिरुक्ता / सरांसि-कासारान् / शीतमुक्ताफलक्षोदसमाम्बुपानाव-शीतं शीतलम् तथा मुक्ताफलं मौक्तिकम् तस्य यः क्षोदः चूर्णः तेन समं तुल्यं यदम्बु जलम्, जलस्यातिनिर्मलत्वान्मुक्ताफलक्षोदतुल्यतेति भावः तस्य शीतलाय निर्मलस्य च जलस्य पानात् पानक्रियातः / सम्भावयन्-उपयुञ्जन् प्रशंसयंश्च / अत्र शेत्ये तटोद्गतेत्यादिपदार्थस्य हेतुत्वोपगमात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः // 16 // पुराणि साराणि निरीक्षमाणः, कचिद् गवाश्वादि परीक्षमाणः / तीर्थानि कुत्रापि परीयमाण- स्त्रिः कापि दुर्गाच्च निरीयमाणः // 17 // व्याख्या-साराणि-श्रेष्ठानि / पुराणि-नगराणि, मार्गे प्राप्तानीति भावः / अस्य सर्वत्रानुषङ्गः / निरीक्षमाणः-अवलोकमानः / क्वचित्-कुत्रापि / गवाश्वादि-गावश्च अश्वाश्च एषां समाहारे गवावं, तदादि तत्प्रभृति-हस्त्याद्यपीति भावः / परीक्षमाणः-तल्लक्षणादिभिरुत्कृष्टत्वानुत्कृष्टत्वादि विवेचमानः / एतेन तस्य तज्ज्ञत्वं सूचितम् / तज्ज्ञाः तं दृष्ट्वा गुणदोषौ चिन्तयन्तीति स्वभाव इति भावः / कुत्रापि-कापि / तीर्थानिपुण्यस्थानानि / त्रिः-त्रिवारं / परीयमाणः-प्रदक्षिणं कुर्वन्नित्यर्थः / तस्य आस्तिकत्वादिति भावः / कापिकुत्रापि च “कोट्टदुर्गे पुनः समे” इति हैमोक्तेः / दुर्गा-कोट्टाव दुर्गभूमेश्च / निरीयमाणः-निस्सरन् // 17 // विश्रम्य विश्रम्य महीरुहाणां, छायासु कुत्रापि चलन् श्रमार्तः / ध्वजाभिरावेदितसौधराजि, पाप क्रमाद्रत्नपुर पुरं सः // 18 // व्याख्या-श्रमातः-चलनकुमखिन्नः / कुत्रापि-कापि / महीरुहाणां-वृक्षाणां / छायासु-अनातपेषु / विश्रभ्य-विश्रम्य-विश्रामं कृत्वा / वीप्सायां द्विरुक्तिः / एतेन श्रमाधिक्यं सूचितम् / चलन्-गच्छन् / क्रमावशनैः / सः-धरणीजटः / ध्वजाभि:-पताकाभिः / आवेदितसौधराजि:-आवेदिता ज्ञापिता सौधानाम् प्रासादानां राजिः श्रेणियेन तद् तादृशम् ,ध्वजायुक्तसौधश्रेणीयुक्तम् / रत्नपुर-तन्नाम / पुरं-नगरं / प्राप–प्राप्तवानित्यर्थः।।१८॥ अथ तदृष्ट्या रत्नपुरं वर्णयति-यदुन्नतमितियदुन्नतं दुर्गमितोऽपि हर्म्य-चक्रं ततोऽपि क्षितिपालसद्म / . ततोऽपि जैनायतनं च तस्मिन् , सतां तदौन्नत्यमयं स मेने // 19 //