________________ [86 ] युप्मभ्यम्-भवद्भधः / ऋणापहानि-ऋणानि अपहन्ति दूरीकुर्वतीति तानि तथाविधानि ऋणापहानि / धनानि-वित्तानि / दत्ते-दद्यादित्यर्थः / तत्र गमनेनैव तल्लाभसंभवः / अत्रत्यं हि त्वां स कथमीदृशं दुर्दशं बुद्धयेतेति भावः // 13 // अथ तदनन्तरं तत्त्कर्त्तव्यमाह-पथ्यामितिपथ्यां च तथ्यां च स वाचमस्या-निपीय पीयूषरसातिसाराम् / तदर्पितं दर्पविविक्ततेजाः, पाथेयमादाय चचाल विप्रः // 14 // व्याख्या-पथ्यां-हिताश्च / तथ्यां-यथार्था च / अस्या:-यशोभद्रायाः / पीयूषरसातिसाराम्पीयूषस्यामृतस्य रसो निष्यन्दः ततोऽपि अति-उत्कृष्टः सारः स्थिरांशः यस्यां तां तादृशीं / वाचं-वाणी / निपीय-सादरं श्रुत्वा / दर्पविविक्ततेजा:-दर्पणाहंकारेण विविक्तं रहिवं तेजः प्रभावो यस्य स तादृशः, निरभिमानीत्यर्थः, अन्यथा पुत्रसकाशाद याचितुं गमनं न स्यादिति भावः / स-तादृशः / विप्रः-द्विजः धरणीजटः / पाथेयम्-पथि साधु पाथेयम् भक्ष्यान्नादि / तदर्पितम्-तया यशोभद्रया अर्पितं दत्तम् / आदायनीत्वा / चचाल-प्रतस्थे // 14 // ___ अथ गमने कार्यसिद्धिसूचकं शकुनमाह-प्रदक्षिण इतिप्रदक्षिणस्तस्य बभूव चाषः, प्रदक्षिणत्वं प्रथयन्निवोच्चैः / . प्रतिष्ठमानस्य सुतं प्रतीष्ट-प्रातिष्ठमानस्य ततो द्विजातेः // 15 // ___ व्याख्या-तत:-प्रस्थानानन्तरम् / तस्य-धरणीजटस्य / इष्टप्रातिष्ठमानस्य-इष्टमभिलषितम् प्रातिष्टमानस्याश्रयतः, अभिलाषां कुर्वतः, तत्र मे अभिलषितप्राप्तिः स्यादित्येवमीहमानस्येत्यर्थः / तथा सुतं पुत्रं प्रति प्रतिष्ठमानस्य कृतप्रस्थानस्य / द्विजातेः-विप्रस्य / उच्चैः-उत्कृष्टं / प्रदक्षिणत्वम्-अनुकूलतां / प्रथयन्ख्यापयभिव / चाप:-तदाख्यः पक्षिविशेषः / प्रदक्षिण:-स्वदक्षिणभागस्थः / बभूव-अभूव , यात्रासमये स्वदृष्टिगोचरीभूतः प्रदक्षिणः चाषः कार्यसिद्धिसूचकः इति भावः // 15 / / अथ तस्य गमनप्रकारं त्रिभिराह-तटोद्गतेतितटोद्गतानेकविशालशाल-च्छायानिषिद्धातपसञ्चयोनि / . सम्भावयन् वापि सरांसि शीत-मुक्ताफलक्षोदसमाम्बुपानात् // 16 // व्याख्या-कापि-कुत्रापि प्रदेशे, तृषातः सन् इति भावः / तटोद्तानेकविशालशालच्छायानिषिजातपसायानि-तटे वीरप्रदेशे उद्गता उद्भूता ये अनेके विविधाः विशाला विस्तीर्णा महान्तश्च "अनोकरः,