________________ [ 85 ] किन्तु आशसनमाशाः प्राप्तीच्छाः, सर्वेभ्य एष संप्राप्तिकामनां करोतीति तस्य शतश आशा इत्यर्थः / तथा ता आशाः मित्रद्विजराजभासः-मित्रं सुहृन द्विजः कश्चिदन्यः कुटुम्बः उदासीनश्च राजा नृपश्च यद्वा द्विजानां मध्ये राजा इव द्विजराजः, इभ्यो द्विजः, स च तेभ्यस्ताभ्यां वा भासन्ते इति मित्रद्विजराजभासः मित्रद्विजराजपूरणीयाः / न चापि-न चैव, केऽपि न तदाशाः पूरयन्तीत्यर्थः, नितरां निरालम्बनः स इति भावः / अत्र दिगवाचकाशाभ्यः धनादिप्राप्तीच्छारूपाशानां न्यूनत्ववर्णनाद् व्यतिरेकः, स च आशा इति श्लेषानुप्राणितः / किञ्च दिगवाचकाशाः भिन्नाः, प्राप्तीच्छारूपाश्च भिन्ना इति द्वयोर्भेदेऽप्यभेदोक्तेरतिशयोक्तिः / किश्च आशा दशैव न ततोऽरिक्ताः / अत्र तु तदतिरिक्ता इति विरोधः, अर्थान्तरपरतया तु तत्परिहारः, एवञ्च विरोधाऽलङ्कारोऽपि / ततश्च श्लेषव्यतिरेकातिशयोक्तिविरोधानां सङ्करः // 11 // अथ तत्पत्न्याः उक्तिं प्रपञ्चयति-दौर्गत्यदुःखमितिदौर्गत्यदुःखं बहुधा वहन्तं, मनुष्यभावेऽपि पतिं विभाव्य / पतिव्रतानामवतंसरूपा, द्विजप्रिया सा तदिदं न्यगादीत् // 12 // व्याख्या-मनुष्यभावेऽपि-मनुष्यस्य भावः धर्मः मनुष्यत्वमित्यर्थः,तस्मिन् सत्यपि / बहुधा-अनेकप्रकारेण / दौर्गत्यदुःखम्-दुर्गतस्य भावो दौर्गत्यं दुःखित्वं दरिद्रत्वञ्च / अथ च दुष्टागतिरवस्था दुर्गतिः तस्या भावो दौर्गत्यं दरिद्रतो, यद्वा दुष्टे गती दुर्गती नरकतिर्यग्लक्षणे तयोर्भावो दौर्गत्यम्, ततः यदुःखं तव / अत्रापि ना विरोध उक्तः, मनुष्यत्वे नरकतिर्यग् दुःखमिति विरोधः, प्रेतत्वे एव तद्दुःखानुभवाव, नरकादिलोकस्य मर्त्यलोकाद्भिन्नत्वात् , दरिद्रताऽर्थकरणेन तु तत्परिहारः / वहन्तं प्राप्नुवन्तं / पति-कान्तं / विभाव्यपर्यालोच्य / पतिव्रतानां-सतीनाम् / अवतंसरूपा-भूषणरूपा / सा-प्रसिद्धा यशोभद्राख्या / द्विजप्रियाविप्रपली / तदिदं-वक्ष्यमाणं / न्यगादीव-जगाद / अत्र विरोधालङ्कारः / विरोधपरिहारस्तु प्रदर्शित एव।।१२।। अथ सा यन्न्यगादीत्तदाह-पुत्रस्त्वदीय इतिपुत्रस्त्वदीयः कपिलः कलावा-निशम्यते रत्नपुरे महर्द्धिः / तत्सन्निधौ यात यथा स दत्ते, धनानि युष्मभ्यमृणापहानि // 13 // व्याख्या-त्वदीयः-तव / पुत्रः-सुतः / कपिल:-तदाख्यः / कलावान्-कलाज्ञः पण्डित इत्यर्थः / . एतेन तत्र धनप्राप्तिसंभावनोक्ता / पण्डितो हि पितृभक्तः स्यादेवेति भावः / रत्नपुरे-तदाख्यनगरे / महद्धि:-महती ऋद्धिः सम्पत्तिर्यस्य स तादृशः + निशम्यते-श्रयते, जनश्रुत्येति शेषः / तत्सनिधौ-तस्य कपिलस्य सन्निधौ समीपे / यात-व्रजत / ननु तत्र गमनेन किं स्यात्तत्राह-यथा-येन प्रकारेण / स-कपिलः।