________________ [ 84 ] अथ तस्य विप्रस्य चित्तवृत्तिं वर्णयति-रुक्षाशिन इतिरूक्षाशिनस्तस्य बभूव भोज्यं, निस्नेहमन्तःकरणं न चापि / योऽधत्त भक्तस्पृहयालुभावं, निदर्शनेनापि न दर्शनेन // 10 // व्याख्या-रुक्षाशिनः-रूक्षं निस्नेहं तैलघृतादिरहितमश्नातीति रूक्षाशी तस्य / तस्य-धरणीजटस्य / भोज्यं-भक्ष्यम् / निस्नेह-स्नेहेभ्यस्तैलघृतादिभ्यो निर्गतं रहितं / बभूव-अभूत् / अन्तःकरणं-हृदयं / न चापि-न चैव,हृदयं तु सस्नेहं सानुरागमेवेत्यर्थः, तथा / यः निदर्शनेन-केनचिदृष्टान्तीकृतेनापि, उच्चारितमात्रेणापीति यावत् / न दर्शनेन–अवलोकनेन, एवेति शेषः, नावलोकनमात्रेण / भक्तस्पृहयालुभावम्-भक्ते ओदनविषये यः स्पृहयालोः गृघ्नोः भावं लोलुपत्वम् / अवत्त-धृतवान् ,स न केवलम् भक्तं दृष्ट्वैव तत्र सृहयतिस्म, किन्तु केनचिद् भक्तशब्दोच्चारणेऽपि तत्र स्पृहयालुर्भवतिस्म / एतेन तस्य नितरां दुर्दशा प्रकटिता, आहारस्याप्यसम्प्राप्तेः / अथ च तं न केवलम् दृष्ट्वायं परमो भक्तः इति भक्तानाम् देवाद्यनुरागवतां स्पृहणीयोऽभूद्, अपि तु को भक्त इति जिज्ञासायां तमेव दृष्टान्तत्वेन जना उपन्यस्यन्तीति निदर्शनेनापि स भक्तानां स्पृहयालुताम् , अहमप्येवं भक्तः कथं स्यामिति लालसाविषयत्वमधत्त इत्यर्थः। दरिद्रोऽपि सन् स महानुपासकः, न तु साधारणजनवनास्तिकतामुपगत इति भावः / अत्र पूर्वार्धे भोज्यस्य निस्नेहत्वेऽप्यन्तःकरणस्य तनिषेधाव परिसंख्यालकारः, किश्च यथाऽन्नं भक्षयेत्तथैव सम्पद्यते मनोवृत्तिरिति सिद्धान्ताद् रूक्षभोजने कारणे सत्यपि अन्तःकरणस्य निस्नेहत्वाभाववर्णनाव हेतौ सत्यपि कार्यानुत्पत्तेविशेषोक्तिरलङ्कारः, तलक्षणं यथा-"सति हेतौ फलाभावे विशेषोक्तिः प्रकीर्तिता" इति / एवञ्च परिसंख्याविशेषोक्त्योः सङ्करः / उत्तरार्धे च भक्तस्पृहयालुभावमिव भक्तस्पृहयालुभावमधत्तेति शब्दशक्तिमूलोपमाध्वनिः // 10 // अथ तदवस्थायां तस्य निराश्रयत्वमाह-आशास्त्वितिआशास्तु शास्त्रेषु दश प्रसिद्धा, विभान्ति मित्रद्विजराजभासः / द्विजन्मनस्तस्य दशातिरिक्ता, न चाऽपि मित्रद्विजराजभासः // 11 // व्याख्या-शास्त्रेषु-आगमेषु / प्रसिद्धाः-प्रख्याताः / दश–दशसंख्याकाः, पूर्वपश्चिमदक्षिणोत्तराः, चत्वारः कोणाः, ऊर्ध्वमधश्चेत्येवं दशेत्यर्थः / आशा:-दिशः / मित्रद्विजराजभास:-मित्रः सूर्यः “मित्रो ध्वान्तारातिः" इति हैमः / द्विजराजश्चन्द्रः 'द्विजराजः शशधरः' इत्यमरः / ताभ्यां भासन्ते प्रकाशं गच्छन्ति इति ताः चन्द्रसूर्यप्रकाशिताः / विभान्ति-शोभन्ते / तु-किन्तु / तस्य-दरिद्रस्य / द्विजन्मन:-विप्रस्य धरणीजटस्य / दशातिरिका:-दशभ्यः अतिरिक्ताः भिन्नाः अधिका वा, ताः आशाः / अत्र आशा इति न दिशः