________________ [ 83 ] विशेषतां क्वाप्यनवेक्षमाणः, सामान्यसत्तामपि पर्यहार्षीत् / यो वा निरस्यन् समवायमेकं, मनोऽपि दुष्कर्मपरं निनिन्द // 9 // व्याख्या श्रियः-लक्ष्म्याः / प्रसादापगमे-प्रसादस्य प्रसन्नताया अपगमेऽभावे सति, दुर्गतः सन्नित्यर्थः / स-तादृशः प्रसिद्धः / विप्रः-ब्राह्मणः, धरणीजटः / नव्यम्-विलक्षणम् नूतनम् / कणादभावम्कणान् अत्तीति कणादः, भिक्षायामुत्तमतण्डुलाऽलाभाव , कथञ्चित् प्राप्ततण्डुलकणभोक्ता कणादस्तस्य भावस्तम् / अथ च कणादः वैशेषिकन्यायप्रणेता ऋषिः, तस्य भावम् / भजते स्म-अभजन , कणभक्षणं तस्य जीवनोपायोऽभूव इत्यर्थः / तथा प्रथमम्-प्रथमोपात्तम् / पदार्थ-द्रव्यमित्यर्थः, वैशेषिकनये पदार्थविभागप्रदर्शकसूत्रे प्रथमतः द्रव्यस्यैवोपादानादिति भावः / आतिष्ठमान:-आकाङ्कमानः, अथ च प्रतिजानानः / द्वितीयं-द्वितीयतयोपात्तम् / गुणं-गुणात्मकपदार्थ / निरभयित्-तत्याज / च-वैशेषिकनये हि पदार्थमध्ये द्रव्यं गुणश्वोक्तम् , अयन्तु द्रव्याकाङ्क्षया गुणं तत्याज, नहि द्रव्यलुब्धानां दुर्दशानां क गन्तव्यम्, क याचनीयम् , किं कर्त्तव्यमित्यादि सदसद्विचारस्तिष्ठतीत्येवं स गुणरहितो जायते / एवञ्चैतेन द्रव्यमाश्रित्य गुणत्यागाव पूर्वकणादतो वैलमण्यमशिश्रियत् , स तु गुणमशिश्रियदेवेति सुष्ठूक्तम् नव्यकणादभावमभजदिति // 8 // वैलक्षण्ये युक्त्यन्तरमप्याह विशेषतामिति / क्वापि-कुत्रापि। विशेषतां-खसत्कारादिरूपम् वैशिष्ट्यम् / अनवेक्षमाणः-अनवलोकयन् / अथ नित्यद्रव्यवृत्ति विशेषपदार्थत्वम् अनवलोकमानः, वैशेषिकनये परमाणौ भेदग्राहको विशेषः, स च स्वतो व्यावृत्त इति सिद्धान्तः / अस्य तु न कापि विशेषताद्रष्टिरित्यपरं वैलक्षण्यम् / सामान्यसत्तामस्वकीया या सामान्यसत्ता ब्राह्मणत्वादिरूपेण स्थितिः, तामपि पर्यहावि-परित्यक्तवान् , कुत्रापि विशेषसत्काराऽलाभाव द्रव्यप्राप्त्यभावाज्जीवननिर्वाहार्थमनन्यगतिकत्वाद् ब्राह्मणोऽहमित्यादि स्वजातिविचारं त्यक्त्वा यतः कुतश्चिच्छूद्रादिगृहादेरपि सिद्धान्नाद्यप्यानीय जीवनं निरवाहयदित्यर्थः / आतः किं न प्रकुर्वते इति भावः / वैशेषिकनये तु सत्ता द्रव्यत्वादि नित्यमेकमनेकानुगतं सामान्य पदार्थ इति स्वीकृतम् , अयं तु सामान्यसत्ता पर्यहार्षीदित्यपि ततोऽस्य वैलक्षण्यम् / वा-पुनः / यः-धरणीजटः नूतनः कणादः / एकमअद्वितीयं / समवायं-समूहम् / अथ च समवायसम्बन्धम् वैशेषिकनयप्रसिद्धम् / निरस्यन्-क्षिपन् , न स क्वापि एकसमवाये सम्प्रदाये तिष्ठति, किन्त्वातः जीवननिर्वाहार्थ सम्प्रदायाव सम्प्रदायान्तरमाश्रयति द्रव्याकाझ्या इत्यर्थः / वैशेषिकनये तु समवायसम्बन्धः एक एव पदार्थमध्ये स्वीकृतः, इति ततो वैलक्षण्यम् / दुष्कर्मपरम्-ईदृशजातित्यागादिसंसक्त। मन:-चित्तं / निनिन्द-पिङ मां, यदेवं गहिताचारमाचरामि, तस्य विद्वत्त्वादेवं विचारस्योदय इति भावः, वैशेषिकनये च द्रव्यमध्ये मनसो गणनम् , अयन्तु तन्निन्दति इत्यपि वैलक्षण्यमिति भावः / अत्र श्लेषेन कणादापेक्षयाऽस्य वैशिष्ट्यवर्णनाद् व्यतिरेकालभारः // 9 // .........