________________ [82 ] समुद्रस्य क्षारत्वस्य लक्ष्मीगमनहेतुकत्वाभावेऽपि तद्धेतुकत्वोक्तेः, कृष्णे स्वत एव कृष्णत्वस्य कालत्वस्य सत्त्वेन तत्र लक्ष्मीगमनहेतुकत्वाध्यवसायात् , स्वतः कलङ्किनि चन्द्रे लक्ष्मीगमनहेतुकत्वाध्यवसायाचासम्बन्धे सम्बन्धरूपातिशयोक्तिः, तादृशदुष्टफलेन च लक्ष्म्यां हेतुभूतं चञ्चलत्वमनुमितमित्यनुमानश्च, तयोः सङ्करः // 5 // अथ लक्ष्म्यास्तत्त्यागे हेत्वन्तरमपि श्लोकद्वयेनाह-वस्त्राणीतिवस्राणि चित्राणि सुभोज्यमाज्य-प्राज्यं च ताम्बूलविलेपनानि / / मृगेक्षणानेत्रनिरीक्षणानि, श्रियः प्रसत्तौ सुलभं समस्तम् // 6 // व्याख्या-श्रियः-लक्ष्म्याः / प्रसत्तौ–प्रसादे सति प्रसन्नायां लक्ष्म्यामित्यर्थः / चित्राणि-नैकप्रकाराणि / वस्त्राणि-वासांसि / आज्यप्राज्यम्-आन्यं घृतं प्राज्यं प्रचुरं यत्र तत्तादृक् / सुभोज्यम्-सुभक्ष्यम् / ताम्बूलविलेपनानि-ताम्बूलानि नागवल्लीदलानि विलेपनानि अङ्गरागानि “अङ्गरागो विलेपनम् इतिहैमः / मृगेक्षणानेत्रनिरीक्षणानि-मृग इव ईक्षणं यासां ताः मृगेक्षणाः हरिणेक्षणाः योषितः, तासां नेत्राणि नयनानि तैः निरीक्षणानि अवलोकनानि इतीति शेषः / समस्तम्-सुलभम् , अनायासलभ्यम् , लक्ष्मीवतां लौकिकविषयभोगसुलभः इत्यर्थः // 6 // अथ पूर्वश्लोकार्थस्योपयोगमाह-वाणीतिवाणी स्वभावेन विरोधिनी मे, दोषप्रकाशप्रवणा बुधेन / पुरस्कृता तेन ततो मयाऽपि, तिरस्कृतोऽसाविति यं रमौज्झत् // 7 // व्याख्या-तेन-धरणीजटाख्येन / बुधेन-पण्डितेन / मे-मम / दोषप्रकाशप्रवणा-दोषस्यागुणस्य प्रकाशे प्रकटने प्रवणा तत्परा / अत एव स्वभावेन-निसर्गेण / विरोधिनी-अप्रियकी / वाणी-सरस्वती / पुरस्कृता-अप्रेकृता, सत्कृतेत्यर्थः, अहं तु तिरस्कृता इति भावः / ततः तस्माद्धेतोः / मया-का लक्ष्म्याऽपि / अपि:-विप्रकृततिरस्कारसूचकः / असौ-विप्रः / तिरस्कृत:-त्यक्तः / इति-इत्थं कृत्वा / रमा-लक्ष्मीः / यम्-विप्रम् धरणीजटम् / औल्झत्-त्यक्तवती, सापल्यविरोधस्यासमाधेयत्वादिति भावः / विद्वांसः प्रायः निर्धना एव भवन्ति इति गूढार्थः // 7 // __अथ लक्ष्म्यपगमे धरणीजटावस्थां भङ्गया युग्मेन वर्णयति-श्रिय इतिश्रियः प्रसादापगमे स विप्रः, कणादभावं भज तेस्म नव्यम् / आतिष्ठमानः प्रथम पदार्थ, गुणं द्वितीयं निरभर्स्यच // 8 //