________________ [81 ] व्याख्या-या-लक्ष्मीः / जलदुर्गदुर्गम्-जलमेव दुर्ग कोट्टम्, "कोटदुर्गे पुनः समे" इति हैमः, तेन दुर्गम् दुर्गमम्, एतेन ततो निःसरणेऽपि दुर्गमता सूचिता, गमने दुर्गस्य निःसरणेऽपि तथात्वाद, एवम्भूतमपि / वासपत्रम्-वासः वासस्थानं यद् पद्मं कमलम्, तत् / सवेगम्-सत्वरम्, झटिरयेव / एतेन तस्याः विचारलज्जाद्यभावः सूचितः, तादृश्या एव झटिति वासगृहत्यागसम्भवाद, तादृशस्य वासस्य त्यागान्महासाहसिकत्वं च द्योत्यते, नहि दुर्गगतगृहत्यागः स्वल्पेन साहसेन सम्भवति, अत एव पुरुषेभ्यः स्त्रीषु चतुर्गुणं साहसम् इति नीतिः। उत्सृज्य-त्यक्त्वा, ननु दिवात्यागो न सम्भवति, स्वयं तथाकरणोद्यतत्वेऽपि रक्षकादिना निरोधसम्भवाद, लोकलज्जाया एव वा बलवत्या निरोधकत्वसम्भवादत आहनिशि-रात्रौ, रात्रौ हि अन्यपुरुषदृष्टिसम्पाताऽभावात् तथा कत्तुं शक्यत्वादिति भावः / सहोदरेणसगर्भेण / चन्द्रेण-विधुना, द्वयोः समुद्रोत्पन्नत्वादिति भावः / अत्र सहोदरेणेत्युक्त्यातिगमुकारित्वं तस्याः सूच्यते / साध-सह / ररमीति-पुनः पुनः अतिशयेन वा रमते, तस्याः तादृश्याः अतिनिकृष्टकुलटायाः लक्ष्म्याः / अन्यत्र-अन्यस्मिन् पुंसि विषये / रतिः-रमणं / सत्या-यथार्था / न किम् ? अपि तु यथार्थव / यस्यास्सहोदरेण रमणे न बाधा तस्या अन्यत्र किमु वक्तव्यम् ? एवञ्च तस्याः कुतो गुणागुणविचारः, विचारे वा बहूनां गुणिनां सत्त्वादेकं परित्यज्यान्यत्र गमने कुलटाया बाधकाभावः, अत्र दिवां पद्मस्य विकाशः, रात्रौ सङ्कोचः, चन्द्रस्य च रात्रावेव शोभा न दिबा इति दिवा चन्द्रे न लक्ष्मीः , रात्रौ च पङ्कजे न / यदुक्तं कुमारसम्भवे "चन्द्रंगता. पद्मगुणान् न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्यामिति तदेवात्र प्रकारान्तरेण वर्णितम् / एवञ्चात्रातिशयोक्तिरलङ्कारः, स्वभावत एवोभयत्र लक्ष्म्या भावाभावसत्त्वेन लक्ष्मीकर्तृ कत्यागाश्रयणादेरध्यवसायाव, तत्परिपुष्टश्च लक्ष्म्याः अन्यत्र रमणानुमानमिति द्वयोः सङ्करः // 4 // अथ तस्या अस्थिरत्वे हेतुमुक्त्वा फलमाह-पिता ययेतिपिता यया क्षार इति प्रसिद्धः, पतिर्यया कृष्ण इति स्वतोऽपि / भ्राता कलङ्कीति यया व्रजन्त्या, विगाहतां सा स्थिरतां व लक्ष्मीः // 5 // व्याख्या-यया-लक्ष्म्या / व्रजन्त्या-गच्छन्त्या, यालक्ष्म्याः जनकत्वेन संसर्गमाप्त इति यावद / पिता-जनकः समुद्रः। क्षारः-लवणाकरः / इति-इत्थं / प्रसिद्धः-लोके ख्यातोऽस्ति / यया-लक्ष्म्या। स्वतोऽपि स्वयमपि, व्रजन्त्या इत्यनुषज्यते / पतिः-भर्ती / कृष्ण:-कालः / इति–इत्थं, प्रसिद्धः,इत्यनुषज्यते। यया-लक्ष्म्या, व्रजन्त्येत्यनुषज्यते / भ्राता-चन्द्रः / कलङ्की-कलङ्कवान् / इति-इत्थम् , प्रसिद्धः इत्यनुषज्यते / सा-तादृशी सर्वदूषिणी / लक्ष्मी:-श्रीः / क्व-कुत्र / स्थिरतां-निश्चलताम् / अवगाहता-प्राप्नोतु, न कुत्रापीत्यर्थः / स्वयं गतायामपि तस्यां न कोऽपि स्थिराश्रयदः, तत्पित्रादिवदोषानुषङ्गसाध्वसादिति सा न कुत्रापि स्थिरतामवगाहते इति भावः / एवञ्च पूर्वोक्तहतोरत्रोक्तफलाञ्च तस्याः चञ्चलत्वं सिद्धमिति भावः / अत्र