________________ [8] व्याख्या-अथेति-वृत्तान्तरप्रारम्भे / तत्र-अचलप्रामे / यः धरणीजटः, अपेक्षिताभिः-उचिताभिः / आहारधाराभि:-आहाराणां भक्ष्यान्नपानादीनां या धारा परम्परा ताभिः / सलील-लीलया विलासेन लालनादिना सहितम् , नतु दासीपुत्रोऽयमित्यनादरबुद्धया यथाकथश्चिदितिभावः / कपिलं-तदाख्यं कपिलापुत्रम् / अवीवृधत्-पुनः पुनरतिशयेन वा वर्द्धयति स्मेत्यन्त वितण्यर्थः / स-तादृशः समुचिताचरणपरायणः / विप्रःब्राह्मणः धरणीजटः / नियते:-विधे. नियतिर्विधित्यमरः। नियोगात-आदेशात् / दौस्थ्यपात्रम्-दौस्थ्यस्य दुःस्थतायाः दुर्गतत्वस्य दारिद्रयस्येति यावत् पात्रम् भाजनम् / अभृत-जातः, सुखदुःखाइभोग्याधीनत्वादितिभावः // 2 // अथ सौस्थ्ये दौस्थ्ये च नियतिरेव कारणमिति भाग्यलक्षणनियतिवशादेव तदुभयं भवतीति तस्य नियतिप्रयोज्यत्वं लक्ष्म्याश्च चञ्चलत्वमाह-या वातेति या वातसम्पातपराहताम्बु-कल्लोलमालाभिरमाऽविरामम् / श्रीर्वाद्धिकूले विललास बाल्ये, तस्यां कथं स्थैर्यमवेक्षणीयम् // 3 // व्याख्या-या-लक्ष्मीः। वातसम्पातपराहताम्बुकल्लोलमालाभिः-वातस्य पवनस्य सम्पातः समाघातस्तेन, पराहताः व्याहताः, यद्वा वातस्य सम्पातोऽतिवेगेनावहनं तेन पराहताः सम्मूर्छिता ये अम्बूनां जलानां कल्लोलाः महोर्मयः, एतेन कल्लोबलानामुत्तुङ्गत्वं, चञ्चलत्वञ्चोक्तम्, वाताघातेन तथैव संभवात् / तेषां या माला परम्परा तया अभिरमते क्रीडति या सा तादृशी श्रीः, यद्वा मालाभिः। अमा-सह / श्री:लक्ष्मीः। बान्ये-शैशवे / वाचिकूले-वाधैः समुद्रस्य कूले वेलायां / अविराम-सततम् / विललासविलासं कृतवती, लक्ष्म्याः समुद्रोत्पन्नत्वाद्वाल्ये तत्रैव तत्क्रीडनसम्भवादिति भावः / तस्यां तादृग् वाताघातान्दोलितायां लक्ष्म्यां / स्थैर्य-स्थिरता / कथम्-केन प्रकारेण / अवेक्षणीयम्-द्रष्टव्यम्, न कथमपीत्यर्थः / बाल्ये झाहितः संस्कारो दृढो भवति, तस्याश्च तत्र चञ्चलतरङ्गसंसर्गाश्चाश्चल्यस्यैवाधानं संभवति, "संसर्गजा दोषगुणा भवन्ति" इत्युक्तेः / एवञ्च तस्याः चश्चरत्वे सिद्धे तत्रोद्धोधकापेक्षायां भाग्यस्यैवोद्बोधकत्वं कल्प्यते, नहि कोऽपि स्वतो लक्ष्म्याः स्थलान्तरतामिच्छति, नापि वाऽत्र दुराचारस्य तत्प्रयोजकता, धरणीजटे तदभावस्य सत्त्वात् / एवञ्च सुलूक्तं नियतेर्नियोगादिति / अत्रास्थिरत्वे चरणत्रयगतवाक्यार्थस्य हेतुत्वोपगमाद्वाक्यार्थहेतुकं कायलिङ्गमलङ्गारः // 3 // ननु “गुणलुब्धाः सम्पदः" इत्युक्तेः तस्मिन् विप्रे गुणानां सत्त्वात्तत्रैव लक्ष्म्या अवस्थानम् युक्तम्, नत्वन्यत्र, तथा च कथं स दौस्थ्यपात्रं, तत्राह-या वासपद्ममितिया वासपर्ट्स जलदुर्गदुर्ग, सवेगमुत्सृज्य सहोदरेण / चन्द्रेण साधं निशि ररमीति, तस्याः किमन्यत्र रतिर्न सत्या ? // 4 //