________________ * अथ द्वितीयः सर्गः के मादिमं चान्तिमं सार्व, द्वाविंशतिकरम्बितम् / वन्देऽमन्दं सदानन्द-कन्दकादम्बिनीहितम् // 1 // नेमिगुरोः कृपां गुर्वी, प्राप्यावाप्तचिदुचयः / कुर्वे टीकां द्वितीयेऽस्मिन् , सर्गेऽज्ञात्मप्रबोधिनीम् // 2 // अथ द्वितीयं सर्ग प्रारिप्सुः एतद्ग्रन्थनायकमेव मङ्गलार्थ स्तौति-नृपत्वेतिनृपत्वचक्रित्वरमाऽङ्गभोगा- सङ्गान्महानन्दमविन्दमानः / तीर्थेशलक्ष्मी परिणीतवान यः, श्रीशान्तिनाथः स शुभाय वः स्तात् // 1 // व्याख्या-नृपत्वचक्रित्वरमाजभोगासङ्गाद्-नृपत्वं नृपलक्ष्मीः, चक्रित्वं चक्रवर्तिलक्ष्मीः, तयोः रमा शोभा तस्या अङ्गानि छत्रचामरादीनि चक्ररत्नादिस्त्रीरलपर्यंत-चतुर्दशरत्नानि नवनिध्यादीनि च तेषं यो भोगः, उपभोगस्तत्र य आसङ्ग आसक्तिः तस्मात , महानन्दं-परमानन्दं शाश्वतिकं सुखम् / अविन्दमान:-अलभमानः, लौकिकविषयोपभोगजन्यसुखानामनित्यत्वेनापारमार्थिकत्वाद्, दुःखसंभिन्नत्वाति भावः / यः श्रीशान्तिनाथः, तीर्थेशलक्ष्मीम्-तीर्थेशस्य, तरन्त्यनेनेति तत्तीर्थम् , द्वादशाङ्गी प्रथमगणधरः चतुर्विधसङ्घश्च, तस्येशः तीर्थकर इत्यर्थः, तस्य लक्ष्मीमष्टप्रातिहार्य-चतुस्त्रिंशदतिशयादिरूपां / परिणीतवान्स्वीकृतवान् , तस्या एव शाश्वतिकमहानंदजनकत्वात् / स वा-युष्माकम् , वक्तृश्रोतृणां / शुभाय-मङ्गलाय / स्ताव-भवतात् / अत्र दुस्त्याज्यनृपत्वचक्रवर्त्तित्वलक्ष्मीत्यागेन तस्य वीतरागतोक्ता, तदैव तीर्थेशलक्ष्मीप्राप्तियोग्यतायाः सम्पत्तेरिति, तीर्थेशलक्ष्मीप्राप्तौ नृपत्वेत्यादिवाक्यार्थस्य हेतुत्वावगमात् काव्यलिङ्गमलङ्कारः / एतेन लौकिकसुखेहात्यागं विना न परमसुखलाभ इति सूचितम् / अत्र सर्गे उपजातिश्छन्दः // 1 // अथ सत्यभामायाः कपिलपरिचये हेतुभूतं धरणीजटवृत्तमाह-अवीवृधदितिअवीवृधद्यः कपिलं सलील - माहारधाराभिरपेक्षिताभिः / तत्राऽथ विप्रो नियतेर्नियोगात् , स दौस्थ्यपात्रं धरणीजटोऽभूत् // 2 //