________________ 78. कहाहस्य न रूपान्तरतेति भावः, अतएव सा / सत्यभामा-सत्यकिपुत्री / केनचित-केनापि, कपिलेन पित्रादिना वा / नो-नैव / ज्ञाता-विदिता, मन्दरागेत्येवमितिभावः। अत्र नो हातेत्यत्रानुकरणनिपुणेवस्व हेतुत्वावगमाव, काव्यलिकालङ्कारः // 159 // अथ सर्गसमाप्तिमाह-आसोदितिआसीत् श्रीगुरुगच्छमौलिमुकुट--श्रीमानभद्रप्रभोः / पट्टे श्रीगुणभद्रसूरिसुगुरुर्विद्यावतां सद्गुरुः // तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गोऽयमाद्योऽगमत् // 16 // व्याख्या-श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः- श्रिया युक्तो यो गुरुगच्छः वृहद्गच्छाख्यगच्छस्तस्य मौलौ, यद्वा श्रिया युक्तः गुरुः श्रीगुरुः, स चासौ गच्छस्य मौलौ मस्तके मुकुटः तत्तुल्यस्तद्रपो यः भिया युक्तः मानभद्रस्तन्नामा प्रभुर्नायकः, तस्य / पट्टे विद्यावतां-विदुषां / सद्गुरु-अतिप्रायशिरोमणिः / श्रीगुणभद्रसरिसुगुरु-तन्नामा सुविहितक्रियानिष्ठो गुरुः। आसीत्-अभूत् / तच्छिष्येण-तस्य श्री गुणभद्रसूरेः अन्तेवासिना / श्रीमुनिभद्रसरिकविना-तन्नामकेन काव्यका। कृते-रचिते। अत्र-अस्मिन्, शान्तिनाथचरित्रनाम्नि। महाकाव्ये-“सर्गबन्धो महाकाव्यम्" इत्यादि लक्षणयुक्तनिवन्धे / पोडशनि नापीशस्य-षोडशो यः जिनाधीशः जिनेश्वरः श्री शान्तिनाथः तस्य / वृत्ते-चरिते, सवर्णने इत्यर्थः / . अयं-परिदृश्यमानः। बाय:-प्रथमः। सर्गः अगमत-समाप्तः // 16 // वृत्यर्यान्वयबोधिका नियमिता तात्पर्यतोऽर्थे वरे, बाध्यार्था परिशीलिता विमलहृत कोशप्रमाणान्वया / आसे शान्तिचरित्रसङ्गतिपरे मूलार्थविद्योतिता, सर्गे पूर्तिमुपागता तनुतरा व्याख्यांशतो भाविता // 1 // .. // समाप्तोऽयं सव्याख्यः प्रथमः सर्गः /