________________ [77] अब निश्चयात् प्राक् ततः तस्याः सम्पर्कवारणोपायमाह-वाना इतितन्वाना लक्षमानव्यतिकरमवनीविस्फुरद्भद्रशालास्वान्तर्भूतं समुच्च बिबुधसमुचितं सौमनस्यं दधाना। कल्याणस्यैकभूमिर्गिरि-परिदृढ़तां ख्यापयन्ती तथापि, ज्ञाता नो मन्दरागाऽनुकरणनिपुणा केनचित्सत्यभामा // 159 // व्याख्या-अवनीविस्फुरद्भद्रशाला-अवन्यां पृथिव्यां विस्फुरन्ती विकाशमाना या भद्रस्य कल्याणस्य मङ्गलस्य शाला, एवंभूता सत्यभामा-पुनर्विशिनष्टि। स्वान्त तं-स्वात्मनि स्थितम्, यद्वा अवन्यां पृथिव्यां विस्फुरन्ती शोभमाना या भद्रशाला शोभनगृहं तद्रपो यः स्वः आत्मा तत्र अन्तर्भूतं गुप्तं, आत्मनीत्यर्थः / विबुधसमुचितं-विबुधाः देवाः विद्वांसश्च तेषां समुचितं योग्यं / समुच्च-प्रोत्कृष्टं / सौमनस्यं-सुमनसः देवाः, उदाराशयाः जनाः, पुष्पाणि च तस्य भावस्तत्त्वं, देवत्वं सदाशयत्वं सौम्यञ्च / दधाना-धारयन्ती, देवत्वं देवस्य योग्यं, तस्य मात्मनि स्वे धारणं, देवस्य सदाचरणमात्रसारत्वात् स्वस्य च तथात्वात् देवत्वं देवतत्त्वं सौम्यश्च दधाना स्वात्मनि धारयन्ती / यद्वा उदाराशयत्वं सदसद्विवेकित्वं, तञ्च बुधयोग्यम्, पूर्वोक्तप्रकारेण विचार्य कार्यकारित्वरूपस्य सदसद्विवेकित्वस्य स्वस्मिन् सत्त्वात्तद्धारणम्, सौमनस्यं पुष्पाणां समूहश्च देवोचितम्, यथा कोऽपि भद्रशालायां देवमन्दिरादौ धरति तथा स्वात्मनि सा उदारांशयं धरतीति इत्थं सौमनस्यमिव सौमनस्यमिति शब्दशक्तिमूलोपमाध्वनिः / एतेन देवार्थ पुष्पधारणवद्रुदाराशयधारणे स्वस्थादरातिशयः सूचितः, अत एव / कल्याणस्य-शर्मणः / एकभूमि:-अद्वितीयं पात्रं, सदाचरणशीलत्वादिति भावः / अत एव, मन्दः स्वल्पः, नत्वत्यन्तमसन्नेव, इदानीं निश्चयाभावादिति भावः / रागः प्रीतिः यस्या सा। मन्दरागा-कपिले इति शेषः / नन्वेवमित्थं भवतु तथापि सम्पर्कः कपिलेन तस्याः स्यादेव, पतिपन्योः सहवासभाजोस्तस्य दुर्निवारत्वात् / एवञ्च सर्वमेतद् विफलं तत्राह / लक्षमानव्यतिकरम्-लक्षं लक्षसंख्यको यो मानः प्रणयकलहरतस्य व्यतिकरः सम्मिश्रणम्, तं / तन्वाना-कुर्वन्ती, उपर्युपरि मानशीलेति यावत् / एवञ्च मानच्छलेन सम्पर्कवारणमिति भावः / ननु “घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्" इति कदाचिद्रवीभावः सम्भवत्येव संयोगे, तबाह / गिरिपरिदृढताम्-गिरिः पर्वतः स इव परिदृढतां कठोरतां / ख्यापयन्ती-प्रकटयन्ती, पाषाणवत्कठिनतामाश्रयन्तीति यावद, पाषाणस्य हि न कदापि द्रवीभावः, सापि च पाषाणतुल्यचित्तेति सर्वथैव सम्पर्काभावः सम्भवति / नन्वेवं तस्याः वैरस्यं प्रकटितं स्यादिति प्रणयकलहस्य यथार्थकलहतया परिणाम इति दूरे तत्तरीक्षामनोराज्यम्, तत्राह / तथाऽपि अनुकरणनिपुणा-अनुकरणे यथा पूर्व प्रियवचनादिकं करोति स्म तद्वत्तथाकरणे निपुणा प्रवीणा, एवश्चान्यप्रकारेण मन्दस्नेहत्वस्यानवगमात् प्रणय