________________ [ 76 ] ... नन्वन्यः कोऽपि त्वां मोचयिष्यति तत्राह-न कोऽपीतिनकोऽपि तादृक् सुजनोऽस्ति मामतो, विमोक्ष्यते यो वचनैः श्रुतिश्रुतैः। न वेदवाक्यव्यवहारलोपिनो, विनिर्मिमीते हि जनः सभाजनम् // 157 // ___ व्याख्या-तादृक्-तथारूपः / कोऽपि-कश्चनापि / सुजन:-उदाराशयः / नास्ति-न वर्त्तते / य:सुजनः / श्रुतिश्रतैः वेदबोधितैः / वचनैः-वाक्यरूपप्रमाणैः कृत्वा “नाकुलीनैः सह कुलीनायाः सहवासः वेदबोधित" इत्येवं वेदोक्तयुक्तिभिः प्रतिपाद्येत्यर्थः / अत:-अस्मादकुलीनकपिलसकाशात् / माम्-कुलीनां / विमोक्ष्यते-सम्बन्धपरिहारेण पृथक् करिष्यति / ननु यः सुजनः स एवमवश्यं कुर्याद, अन्यथा सुजनत्वहानिः / तत्राह-हि-यतः / जन:-सर्वोऽपि लोकः, साधारणोऽपीत्यर्थः / वेदवाक्यव्यवहारलोपिन:-वेदानां वाक्य वचनं तत्प्रतिपादितो यो व्यवहारः नग्नगमननिषेधादिरूपः तल्लुम्पतीत्येवंशीलः वेदविरुद्धाचरणशीलस्ततः परित्याजनेन / सभाजनं-आनन्दनं / न-नैव। विनिर्मिमीते-करोति / 'आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि' इति हैमः / एवञ्च यत्र साधारणस्यैवं रीतिः, तत्र सुजनः वक्तुमपि कथमुत्सहेत अतस्तादृग् न कोऽपीतिभावः // 15 // नन्वेकेनासदाचरणेन तवाकुलीनत्वानुमानं नोचितम्, सतोऽपि कुलीनस्य कदाचिन्निषिद्धाचरणदर्शनाव __अत आह–अथेतिअथ प्रथममिङ्गित्तैस्तदनुचेष्टितरप्यहं, करोमि किल दुर्धियः कुलविशेषसंवेदनम् / ततो विधृतनिश्चया सपदि मुक्त्युपायं पुरा, .... भजामि वरमित्यसौ परिविमृश्य चिन्तां जहौ // 158 // व्याख्या-अथेति-पक्षान्तरे। प्रथमम्-पूर्वम् / इङ्गितैः–आकारैः “आकारस्विङ्ग इङ्गितम्” इति हैमः / अकुलीनत्वे हि तदनुरूप एवाभिप्रायः तदनुरूप एव चाकारविशेषोऽपि ( वपुर्मुखाकारविशेषोऽपीत्यर्थः) तैः / तदनु-तत्पश्चात् / चेष्टितैः-चेधाविशेषैरपि / दुर्धियः-साम्प्रतं निषिद्धाचरणकारित्वाद् दुर्बुद्धेः / कुलविशेषस्य संवेदनं-नीचकुलेऽयमुत्पन्न इत्याकारकं ज्ञानं / अहं करोमि,किलेति-निश्चये। ततः-तस्माप्रकारात विधृतः कृतो निश्चयः यया सा विधृतनिश्चया, अकुलीनोऽयमित्येवं कृतनिश्चया सती। वरंश्रेष्टं कार्यसाधकतयोत्तमं / मुक्त्युपायं-त्यागमूलं वैराग्यं / सपदि-सद्य एव / पुरा भजामि-भजिष्यामि / इति-इत्थम् / असौ-सत्यभामा / परिविमृश्य-विचार्य / चिन्तां जहाँ-तत्त्याज / अत्र पुरा "यावतोवर्तमाना" 5-3-7 इति हैमसूत्रेण भविष्यदर्थकाद्धातोर्वर्तमाना विभक्तिः // 158 //