________________ योगे तु वैषम्यमेवेति भावः / अत्र कपिले सङ्कथाविधाननिषेधरूपविशेषार्थस्य कुलबध्वाः कुलीनेनैव सह विषवसेवनरूपसामान्यार्थेन समर्थनादर्थान्तरन्यासाऽलङ्कारः // 154 // ननु यद्येवं तर्हि विवाहसमय एव त्वया कथं न सावधानतयाऽभावि, तत्राह-अहमिति - अहं पितृभ्यामविमृश्यकारिता-परिष्कृताभ्यां परिणायिता पुरा / विमोचनीया वचनीयता स्थिते-रतः कथङ्कारमुदारसम्पदः // 155 // व्याख्या-पुरा-विवाहावसरे। अविमृश्यकारितापरिष्कृताभ्याम्-अविमृश्य विना विचारं कुरुतः इति : अविमृश्यकारिणौ तयोर्भावस्तत्ता तया परिष्कृताभ्यां समन्विताभ्याम् , विना विचारं प्रवृत्तिशीलाभ्यां / पितृम्यांमाता च पिता च पितरौ ताभ्यां मातापितृभ्याम् / अहं परिणायिता-विवाहिता / एतेन स्वस्य विवाहे पारतव्यं सूचितम्,एवञ्च तत्र न मम विचारावसरः इति भावः / ननु यदभूत्तदभूव , अधुना त्वया किं कर्त्तव्यम् / तत्राहबत:-अस्याः / स्थिते:-अवस्थातः, एतामकुलीनेन सह विवाहस्थितिमपेक्ष्य जाता इत्यर्थः / वचनीयतानिन्दनीयता / विमोचनीया-परित्याजनीया, अपरित्याजने हानिमाह / उदारसम्पदः-उदाराणां कुलीनानां महाशयानां सम्पदः सत्सङ्गमादिरूपाः लक्ष्म्यः कथङ्कार केन प्रकारेण स्युरिति शेषः / नैव स्युरित्यर्थः / कुलीना महाशया हि न कदापि निन्दनीया भवन्ति, निन्दनीयत्वापादकानि कर्माणि त्यजन्त्यपि, अतः ईदृशवचनीयत्वापरिहारे मम कुलीनाया कुलीनत्वाद्युदारता विलीयेतैवेति भावः // 155 // . अथ साम्प्रतं तत्त्यागे उपायाभावमाह-न पौरवाक्यैरिति-. .. न पौरवाक्यैरपि मामयं जडः, स्मरामयप्लुष्टविवेकविग्रहः / कुलाभिमानं स्पृशतीमुदित्वरं, वरं परित्यक्ष्यति रक्षितग्रहः // 156 // व्याख्या-स्मरामयप्लुष्टविवेकविग्रहः-स्मरः कामः तस्कृतः तद्रूपो वा य आमयः रोगः कामज्वरः तेन प्लुष्टः दग्धः विवेकरूपः सदसद्विचाररूपः विग्रहः शरीरं यस्य स तादृशः, कामान्धतया विवेकहीन., कामान्धस्य स्त्रीपरित्यागो दुष्करः इति भावः, 'अङ्गविग्रहौ' इति हैमः। अत एव रक्षितग्रह:-रक्षित आश्रितः प्रहः अभिनिवेशः येन स तादृशः दुराग्रही / अयं-पुरोदृश्यमानः। जड:-कुकर्माचरणान्मन्दः / पौरवाक्यरपि-पौराणां नागराणां वाक्यैः नागरिककथनैरपि, अपिना तदन्यस्य पित्रादेव्युंदासः / वरं-श्रेष्ठम् / एतेन सामान्याभिमानस्य परावज्ञादिप्रयोजकस्याकरणीयता, न तु सत्कृतिप्रवर्तककुलाद्यभिमानस्येति सूचितम् / उदित्वरम्-जागरितं वर्धिष्णुं शुभाऽऽयतियुक्तमित्यर्थः / कुलाभिमान-सत्कुलजत्वेन मनस्वितां / स्पृशतीम्आश्रयन्तीं / मां-तत्पनीभूतां / न परित्यक्ष्यति नैव मोक्ष्यति / अत्र कुलाभिमानं स्पृशतीमित्यनेन स्वस्य तेनाकुलीनेन सह वासोऽत्यन्तानुचित इति सूचितम् // 156 / /