________________ [74 ] ननु अद्ययं न कुलीनस्तर्हि कथं वेदानध्यगीष्ट, तत्राह-पपाठेतिपपाठ वेदानपि कर्णघर्षणै-रय सनिर्बन्धतया शठः कचित् / चिरत्नसंस्कारविवर्द्धिता हि धी-बहिर्भवं न व्यवसायमीहते // 153 // व्याख्या-अयं-नग्न एवागतवानित्येवं निश्चितः, अत एव / शठ:-दुष्कृतिकः / कचिद-कुत्राच्यनधिगतस्थले, प्रसिद्धस्थले तु नैव सम्भवति, तत्र बहुजनमध्ये निर्बन्वेऽपि शठत्वस्यानवकाशादिति भावः / सनिर्बन्धतया-"निर्बन्धोऽभिनिवेशः" इति हैमोक्तेः निर्बन्धोऽभिनिवेशस्तेन सह सनिर्बन्धः तस्मभावस्तत्ता तया, उत्पाटाग्रहवशेन / कर्णधर्षणः-कर्णयोर्यानि घर्षणानि पुनः पुनर्वेदशब्दश्रवणानि, तैः कृत्वा शुकवदिति भावः / चेदान्-श्रुतीरपि, अपिना शास्त्रान्तराण्यपि / पपाठ-अधिजगे। ननु कर्णघर्षणैः कतिचिच्छब्दानामभ्याससम्भवेऽपि अतिविस्तरस्य वेदादिशास्त्रस्याभ्यासोऽसंभवः / एवञ्च कस्माश्चिद्गुरोः सकाशादेव सपुस्तकं कृताभ्यासः स्याव , तच्च कुलीनत्वाभावे न सम्भवति, अकुलीनाय सविधिगुरुकृतविद्यादानासम्भवात्तत्राह-हियतः / चिरत्नसंस्कारविवर्धिता-चिरत्नः सुदीर्घः प्राक्कालिकः, पूर्वजन्मार्जित इति यावत् , यः संस्कारः प्रतिभाविशेषः तेन विवर्धिता वृद्धि प्रापिता दृढीकृतेति यावत् / धी:-बुद्धिः / बहिर्भवं-बाह्यं, सविधि गुरोरध्ययनादिकं / व्यवसायम्-प्रयत्नं / न-नैव / ईहते-अपेक्षते, किन्तु यथाकश्चिदुद्बोधनमात्रादेव सा धारणावती भवति / एवञ्चास्य निखिलशास्त्राध्ययनं श्रवणमात्रेण न विरुद्धचते, पूर्वजन्मार्जितसंस्कारस्य जागरूकत्वादितिभावः / अत्र श्रवणमात्रेण तदध्ययनरूपविशेषार्थस्य संस्कारविवर्धितधियः व्यवसायविशेषानपेक्षत्वरूपसामान्यार्थेन समर्थनादर्थान्तरन्यासः // 153 / / / अथाकुलीनत्वे निश्चिते निर्वेदाजायमानं तद्विचारमाह-अलं तदितिअलं तदेतेन ममापि संकथा, विधातुमेतेन कुकर्मणाऽमुना / कुलाङ्गनानां विषयोपसेवनं, कुलीनभा हि सह प्रशस्यते // 154 // व्याख्या-तत्-तस्मात् कारणात् / अमुना-युक्तिप्रयुक्तिभ्यां निश्चितेन / कुकर्मणा-कुत्सितं कर्मकुकर्म दुराचारः तेन / एतेन-समेतेन युक्तेन यद्वा शबलेन चित्रेणेत्यर्थः, 'एतः शबलश्चित्रे'ति हैमः / नग्नागमनादिपामराचारेण / एतेन-कपिलेन / मम-मे / सङ्कथा-परस्परालापोऽपि / विधातुं-कर्तुम् / अलंपर्याप्तम् / यत्र सङ्कथाविधानमपि नोचितम् , तत्रान्यस्य विषयोपभोगादेः का चर्चेति भावः / नन्वेतदसाम्प्रतम् , स्त्रियाः पत्या विषयोपभोगस्य अविरुद्धत्वात् / तत्राह-हि-यतः / कुलाङ्गनानां-कुलवधूनाम् सुकुल स्त्रीणामित्यर्थः / कुलीनभा-कुलीनः सत्कुलोत्पन्नो यो भर्ता पतिः तेनैव / सह-साकम् / विषयोपसेवनंविषयस्य स्रक्चन्दनादेोम्यधर्मादेश्वोपसेवनमुपभोगः / प्रशस्यते-सुविधीयते / समेन योगः श्रेयान्', विषमेण