________________ - [73] क्रमाव-क्रमशः / निवृत्ति-मुक्तिं। प्रसाधयति-सम्पादयति / यथा विहितानां धर्मादीनां प्रभावाच्छुभाष्यबसायेन भवोद्वेगसंवेगतस्सञ्चारित्रप्राप्त्या ज्ञानध्यानबलेन मुक्तिरिति,परम्परया धर्मादित्रिवर्गस्य मुक्तावुपयोगात्तदर्थ शरीररक्षणं धीमतां न विरुद्धयते इति भावः // 150 // . नन्वेवं तर्हि कथं न वाससी तेमिते ? तत्राह-प्रसर्पतीति - प्रसर्पति ध्वान्तभरे दिगङ्गना-मुखाम्बुजाच्छादनजातकौतुके / निरंशुकीभूय समीयवानयं, ध्रुवं स्वकक्षानिहितांशुकद्वयः // 151 // व्याख्या-दिगङ्गनामुखाम्बुजाच्छादनजातकौतुके.-दिश आशा एवाङ्गनास्तासां यानि मुखान्यम्बुजानि कमलानीव तेषामाच्छादने आवरणे जातं कौतुकं कुतूहलं यस्य स तस्मिन्, एतेन कस्यचिन्नायकस्य कौतूहलेन नायिका मुखाच्छादनं व्यज्यते / ध्वान्तभरे-ध्वान्तस्य तिमिरस्य भरेऽतिशये / प्रसर्पति-प्रसरति सति, दिशासु ध्वान्तच्छन्नासु जातासु इत्यर्थः / अयं-पुरोदृश्यमानः, कपिलः। स्त्रकक्षानिहितांशुकद्वयः-स्वस्य कक्षयोर्निहितं स्थापितमंशुकयोर्वस्त्रयोयं येन स तादृशः सन् अत एव / निरंशुकीभूय-अंशुकाद्वस्त्रान्निर्गतो रहितः निरंशुकः, न निरंशुकः, अनिरंशुकः निरंशुकः भूत्वेति निरंशुकीभूय नग्न इति यावत् / “अंशुकं वस्त्रमम्बरम्” इति हैमः / समीयिवान्–समागतवान् / ध्रुवम्-एतनिश्चितं, अत एव वस्त्रयोरनार्द्रता, शरीरस्य चार्द्रतेति द्वयमपि सम्भवतीति भावः / यद्यपि वस्त्रयोः कक्षानिहितत्वेऽपि न सर्वात्मनाऽनार्द्रता सम्भवति, तथाप्यधिकभागस्यानार्द्रत्वात्तत्रैव स्पर्शनाद्वस्त्रयोरनार्द्रत्वप्रत्ययः // 151 // ननु भवत्वेवम् , नैतावता किश्चिदपैति, तत्राह-कुलीनतामितिकुलीनतां तन्न परिस्पृशत्ययं, विवेचितस्तादृशकर्मनिर्मितेः / किमत्र कार्य यदि वा परीक्षया, कुलानुमानेन विचेष्टते जनः // 152 // __ व्याख्या-तत्-तस्माद्धेतोः / तादृशकर्मनिमितेः-तादृशस्य नग्नागमनरूपस्य कर्मणः क्रियायाः निर्मितेः करणाद्धेतोः / विवेचितः-विचारितः, नमागमनस्य दुराचरणत्वादिति भावः / अयं-कपिलः / कुलीनतामसुकुलप्रसूततां / न-नैव / परिस्पृशति-साधयति, नहि कोऽपि कुलीनो नग्नः कापि कदापि गच्छेदिति भावः / यदि वा-अथवा / परीक्षया-सदसद्विचारेण / अत्र-अस्मिन् विषये / कार्य-प्रयोजनम् / किमन किमपीत्यर्थः / ननु वर्हि अयं कुलीनोऽकुलीनो वेति कथं निर्णयस्तत्राह / जन:-लोकः / कुलानुमानेनस्वकुलानुसारेणैव / विचेष्टते-प्रवर्तते / प्रवृत्त्यैव कुलं लक्षितं भवति, नतु तत्र परीक्षान्तरमपेक्षितम् / एवञ्च गर्थकारित्वादकुलीन एवेति भावः / अत्र चेष्ट्या अकुलीनत्वस्यानुमानेन दृढ़ीकरणादनुमानालकारः / वस्तुतस्त्वत्र लौकिकानुमान प्रयोग एव, नतु काऽपि विच्छित्तिरिति नानुमानस्यार्य विषयः // 152 //