________________ [ 72 ] आर्दीभवनानन्तरमेव तत्सम्भवादितिभावः / ननु वस्त्रांश एव मन्त्रस्य प्रभावः, नाङ्गाशे, तथा चैतत्संभवत्येवेति तत्राह / गुरुक्तम्-गुरुणा उक्तमुपदिष्टम् / मन्त्रमाहात्म्यं-मन्त्रस्य माहात्म्यं प्रभावः। एवम्उक्तप्रकारेण / अजागरूककम्-अप्रबुद्धं सत् / कचनापि-कुत्रापि / न शम्यते-न विरमति, यदिहि तस्य जागरूकता तदा सर्वांश एव, नवेकत्र जागरूकता, अन्यत्र शान्तता, मन्त्रप्रभावस्यानभिभवनीयत्वाच, गुरूपदिष्टस्याजागरूकत्वासम्भवाञ्चेति भावः / / 148 // अथानुपपत्त्यन्तरमाह-शरीरेतिशरीररक्षाकरणाय कोविदै-विशिष्य मन्त्रः खलु शिक्ष्यते गुरोः / विनोदमात्रप्रतिपत्तिहेतवे, न धीमतां स्युर्जगति प्रवृत्तयः // 149 // व्याख्या-कोविदैः-विद्वद्भिः / शरीररक्षाकरणाय-शरोरस्य देहस्य रक्षा अकालमृत्युकारकव्याघ्रादिभिर्गोपनं, तत्करणाय साधनाय / गुरो:-गुरुसकाशाद् / विशिष्य-विशेषतः तत्तद्विशेषकार्यार्थम् / मन्त्रः-तत्तन्मन्त्रः। शिक्ष्यते-गृह्यते / खल्विति-निश्चये, ननु भवतु तथा, तथापि तादृशस्यैव कदाचित विनोदार्थमपि प्रयोगः किन्न स्यात् तत्राह / धीमतां-पामरस्पृहणीयक्षणिकचमत्कारस्पृहाशू-यानां, ज्ञानिनां / जगति-लोके / विनोदमात्रप्रतिपत्तिहेतवे-विनोदो मनोरञ्जनं लौकिकचमत्कारश्च तन्मात्रस्य प्रतिपत्तिाभः तद्धतवे तदर्थम्, एतेन तादृशप्रयोगस्य फलान्तराभावान्नितान्तमकरणोयत्वं सूचितम्, कपिटितत्वापत्तेरिति भावः। प्रवृत्तयः-प्रारम्भाः / न-नैव / स्युः-भवेयुः / एवञ्चास्य धीमत्त्वात नैतत्कृतमन्त्रप्रयोगोऽत्र विषये सम्भवति, यदि च तथा, तदा नास्य धीमत्त्वमित्यकुलोनोऽयमिति भावः // 149 // ननु धीमतां शरीररक्षणायैव किमिति मन्त्रशिक्षणम्, यतस्तथा सति शरीरमोहसत्त्वात् प्राकृतादविशेषोऽस्य स्यात्, यदि चैवमपि तथा, तदा विनोदार्थमपि तथार्थप्रवृत्तौ न किमप्यसमञ्जसमित्यत्राह-त्रिवर्गेतित्रिवर्गनिर्माणविशिष्टसाधनं, वदन्ति साक्षात् स्वशरीररक्षणम् / क्रमात् परीणामवशेन देहिनां, प्रसाधयत्येतदपीह निर्वृत्तिम् // 150 // व्याख्या-स्वशरीररक्षणम्-स्वस्थ शरीरस्य रक्षणं / त्रिवर्गनिर्वाणविशिष्टसाधनम्-त्रिवर्गस्य धर्मार्थकामस्य यन्निर्माणं विधिस्तत्र विशिष्टमितरापेक्षयोत्कृष्टमावश्यकञ्च यत्साधनम् तत्तथा / साक्षात्-प्रत्यक्षेग / वदन्ति-कथयन्ति, महान्त इति शेषः, इतरसत्त्वेऽपि शरीराभावे धर्मार्थकामाऽसम्भवाद शरोरं तत्र साक्षासाधनमिति भावः, ननु धीमन्तो मुक्तिमेवेच्छन्ति, एवञ्च लौकिकप्रयोजनाय शरीररक्षणे कथं तेषां प्रवृत्तिः, प्रवृत्तौ वा शरीरमोहप्रसङ्ग इति दूरे मुक्तिरत आह / देहिनां-शरीरिणाम, आत्मनामिति यावत् / परीणामवशेन-परीणामः-शुभाऽध्यवसायः तद्वशेन / एतदपि-धर्माधर्थ शरीररक्षणमपि / अत्र लोके।